Book Title: Kumarpal Bhupal Charitram Mahakavyam
Author(s): Jaysinhsuri, Shantivijay Gani
Publisher: Vijaydevsursangh Samtha Mumbai

View full book text
Previous | Next

Page 476
________________ कुमार हास्युः सुखिनः कुतः ? ॥१५६॥ एवं विमृश्य निःशेष, दुःखैकांतमयं भवम् । सुखैकांतमयी मुक्तिः, साधनीया विवेकिभिः सर्ग.१० पालच० ॥ १५७॥ तत्साधनं भवेदात्म-ज्ञानमेवादिमं सताम् । न हि बीजात् परं किंचि-दंकुरोत्पत्तिकारणम् ॥ १५८॥ तच्छास्त्रं तद् विवेकित्वं, तच्चारित्रं तपोऽपि तत् । तद् ध्यानं स समाधिश्च, येन स्वात्मैष वेधते ॥ १५९ ॥ ये स्वं वाच॥२१३॥ स्पतीयंति, ज्ञातुं सकलमप्यदः। क्षेत्रज्ञं वेदितुं तेऽपि, कुठीयंति जडा इव ॥ १६०॥ स्फुरन्मोहमहानिद्रा-मुंद्रिते जगतीत्रये । नूनमात्मज्ञ एवैको, जागर्ति ज्ञानलोचनः॥१६॥ तावच्छुध्यति नात्माऽयं, लीनकश्मलकालिकः। यावत् सङ्ख्यानपीयूष-पूरैः प्रक्षाल्यते न हि ॥ १६२॥ वशंवदेंद्रियग्रामो, निष्कषायो विरक्तहत् । मैत्र्यादिवासितस्वांतः, सुधीर्ध्या नोचितो भवेत् ॥ १६३ ॥ पिंडस्थं च पदस्थं च, रूपस्थं रूपवर्जितम् । चतुर्धा ध्यानमांदध्या-दात्मजिज्ञासया बुधः दि॥ १६४ ॥ कायस्थः कर्मनिर्मुक्तो, ज्ञानवान् परमेश्वरः । जिनेंद्रः स्मर्यते यत्र, तत् पिंडस्थं प्रकीर्तितम् ॥ १६५ ॥ अर्ह न्मयानि यन्मंत्र-पदानि हृदयांबुजे । चिंत्यंते शशिशुभ्राणि, तत् पदस्थमिहोदितम् ॥ १६६ ॥ सप्रातिहार्यसमव-सरणस्थो जिनेश्वरः । यद् ध्यायतेऽथ तद्धिंबं, तद् रूपस्थं निरूपितम् ॥१६७ ॥ अमूर्त्तश्चिन्मयः सिद्धो, ज्योतीरूपो निरंजनः। परमात्मा स्मर्यते यत्र, रूपातीतं हि तन्मतम् ॥ १६८॥ एतच्चतुर्विधंध्यानं, कुर्वस्तद्भावभावितः । ध्याता तन्म IN॥२१॥ यतामेति, भ्रमरीभूतकीटवत्॥१६९॥ निलीयतेऽन्तरात्माऽयं, परात्मनि तदा तथा । यथा भजति तेनैक्यं, ध्यातृध्यान- १संसारम्. २ ज्ञायते. ३ आत्मानम्. ४ भात्मानम्. ५ ज्ञातुम्. ६ कुंठ-मन्दमिव आचरंतीति कुंठीयंति. ७ व्याप्ते. ८ मैत्रीप्रमोदकारुण्यमाध्यस्थ्य०. ५ कुर्यात् | १० तटुिंबं च यद् ध्यायते ११ भावनाबासितः.

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494