Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
८
www.kobatirth.org
जैनागमन्यायसंग्रहः
साध्यस्य नाकारणं, तत्र कार्यकारणभाव एव केषांचिद् विप्रतिपत्तिं पश्यैस्तमेव तावन्नियतं दर्शयन्नाह - तन्तवः पदस्य कारणं नतु पटस्तन्तूनां कारणम् पूर्वमनुपलब्धस्य तस्यैवतद्भावे उपलम्भाद् इतरेषांतु पटाभावेऽप्युपलम्भाद् अत्राह - ननुयदा कश्चिन्निपुणः पटभावेन संयुक्तानपि तन्तून् क्रमेणवियोजयति तदा पटोऽपि तन्तूनां कारणं भवत्येव नैवं - सत्वेनोपयोगाभावात् यदेवहि लब्धसत्ताक - सत्स्वस्थितिभावेन कार्यमुपकुरुते तदेव तस्य कारण - त्वेनोपदिश्यते, यथा मृत्पिण्डोघटस्य, ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तवः समुत्पद्यन्ते तेषां कथं पटः कारणं निर्दिश्यते, नहिज्वराभावेन भवत आरोगितासुखस्य ज्वरः कारणमिति शंकयते वक्त्तं यद्येवं पटेऽप्युपद्यमाने तन्तवोऽभावी भवन्तीति तेऽपि तत्कारण न स्युरिति चेत्, नैवं, तन्तुपरिणामरूप एवहि पटो यदि च तन्तवः सर्वथाऽभावी भवेयुस्तदा मृदभावे घटस्येव पदस्य सर्वथैवोपलब्धिर्न स्यात्, तस्मात् पटकालेऽपि तन्तवः सन्तीति सत्येनोपयोग त्ते पटस्य कारणमुच्यन्ते, पटवियोजनकाले त्यैकैकतंत्यवस्थायां पटो नोपलम्यते तस्तत्र सत्वेनोपयोगाभावान्नासौतेषां कारणं, एवं वीररणकटादिष्वपि भावना कार्या, तदेवं यद्यस्य कार्यस्य कारणत्वेन निश्चितं तत्तस्य यथा समभव गमकत्वेन वक्तव्यतमिति । ' से किं तं गुणेण मित्यादि, निकषः कपणपट्टगताकथित सुवर्णरेखा तेन सुवरणमनुमीयते यथा पञ्चदशादिवर्ण कोपेतमिदं सुवर्णं, तथाविधनिकषोपलम्भात्, पूर्वोपलब्धोभयसम्मतसुवर्णवत् एवं शतपत्रिकादि पुष्पमत्र, तथा विधगन्धोपलम्भात्, पूर्वोपलब्धवस्तुवत् एवं लवणमदिरावस्त्रादयोSनेक भेदसम्भवतोऽनियतस्वरूपा अपि प्रतिनियत तथाविध रसास्वादस्पर्श
.)
,
Acharya Shri Kailassagarsuri Gyanmandir
"
1
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148