Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 107
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशनविषयः अपि तु कालक्षेपेणेत्यसौ साध्यप्रतीति प्रति कालयापनाकारित्वाद् यापकः, यथा क्षणिक वस्त्विति पक्ष बौद्धस्य सत्त्वादिति हेतुः, नहि सत्त्वश्रवणादेव क्षणिकत्त्वं प्रत्येति पर इत्यतो बौद्धः सत्त्वं क्षणिकत्त्वेन व्याप्तमिति प्रसाधयितुमुपक्रमते, तथाहि-सत्त्वं नामार्थक्रियकारित्वमेव, अन्यथा वन्ध्यासुतस्यापि सत्त्वप्रसङ्गः, अर्थक्रिया त नित्यस्यैकरूपत्वोन क्रमेण नापि योगपद्येन क्षणान्तरे अकर्तृत्त्वप्रसंगादित्यतोऽर्थक्रियालक्षणं सत्त्वमक्षणिकान्निवर्त्तमानं क्षणिक एवावतिष्ठत इत्येवं क्षेपेण साध्यसाधने कालयापनाकारित्वाद्यापकः सत्त्वलक्षणो हेतुरिराते । तथा स्थापयति पक्षमतेपेण प्रसिद्धव्याप्तिकत्वात समर्थयति, यथा परिव्राजकधूर्ते लोकमध्यभागे दत्तं बहुफलं भवति तचाहमेव जानामोति मायया प्रतिग्राममन्यान्य लोकमध्य प्ररूपयति सति तन्नि ग्रहाय कश्चित् श्रावको लोकमध्यस्यैकत्वात् कथं बहुषु प्रामादिषु तत्सम्भव इत्येवंविधोपपत्या त्वदर्शितो भो ! लोकमध्यभागो न भवतीति पक्ष स्थापितवान् इति स्थापको हेतुः, उक्तश्च-लोगस्स मज्झ जाणण थावगहेऊ उदाहरण इति, स चायं-अग्निरत्र धूमात् तथा नित्यानित्यं वस्तु द्रव्य पर्यायतस्तथैव प्रतीयमानत्वादिति, अनयोश्च प्रतीतव्याप्तिकतया अकालपेण साध्यस्थापनात् स्थापकत्वमिति । तथा व्यसयति-परं व्यामोहयति शकटतित्तिरीमाहकधूतवद् यः स व्यंसक इति, तथाहि-कश्चिदन्तराललब्धमृततित्तरी युक्तेन शकटेन नगरं प्रविष्टः उक्तो धूर्तेन यथा-शकटतित्तिरी कथं लभ्यते ?, स च किलायं शकटस्य सत्कां तित्तिरी याचत इत्यभिप्रायादवोचत् तर्पणलोडिकयेति, सक्त्वालोडनेन जलाद्यालोडितसक्तुभिरित्यर्थः, ततो धूर्तः साक्षिण आहृत्य सतित्तिरीकं शकट जग्राह, उक्तवांश्च मदोयमेतद्' अनेनैव शकटतित्तरीति दत्तत्वादिति, मया त शकटसहिता तित्तिरी शक्ट For Private And Personal Use Only

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148