Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानविषय:
१३५
,
कल्प्यते, धूमज्ञान इवाग्निः एवं सति स्थितिदर्शनेऽपि किं न तत् कार णस्याधर्मास्तिकायस्य निश्वयः १ अथायमप्यभिदधीत न कदाचिदसौ तत् कारणत्वेनेक्षित इति, ननु वाह्यार्थेऽपि तुल्यमेतत्, नहि सोऽपि तदाकार कारितया कदाचिदवलोकितः अथ मनस्कारस्य चिद्रूपतायामेव व्यापारो नतु नियता (त) कारणत्वे, अतस्तत्रार्थः कारणं कल्प्यते, एवं तर्हि जीव पुद्गलौ परिणाममात्र एवं कारणं, स्थितिपरिणती पुनरधर्मास्तिकायोपेक्षा कारणत्वेन व्याप्रियत इति किं न कल्प्यते १ अथासौ सर्वदा सर्वस्य सन्निहित इत्यनियमेन स्थिति - कारणं भवेत्, नन्वेवमर्थोऽपि किं सन्निहित इत्येव स्वाकारमर्पयति १ श्रथ चक्षुरादि व्यापारमयमपेक्षते, अधर्मास्तिकायोऽपि तर्हि स्वपरगतौ विश्रसाप्रयोगावपेक्षत इति नानयोर्विशेषमुत्पश्याम:, तथा ' भाजनम्' आधार: सर्वद्रव्यारणां' जीवादीनां 'नमः' आकाशम्, अवगाहः - अवकाशस्तल्लक्षणमस्येत्यवगाहलक्षणं तद्भयव गादु प्रवृत्तानामालम्बनो भवति, अनेनावगाहङ्कारणत्वमाकाशस्योक्तं न चास्य तत् कारणत्वमसिद्धं यतो यद्यदन्वयव्यतिरेकाविधाय तत्तत कार्य यथा चक्षुराद्यन्वयव्यतिरेकानुविधायि रूपादि विज्ञानम्, आकाशान्वयव्यतिरेकानुविधायी चावगाह:, तथाहि - शुषिर रूपमाकाशं, तत्रैव चावगाहो, न तु तदुद्विपरीते पुद्गलादौ श्रथैवमलोकाकाशेऽपि कथं नावगाह : ? उच्यते स्यादेवं यदि कश्चिवगाहिता भवेत. तत्र तु धर्मास्तिकायस्य जीवादीनां चासत्त्वेन तस्यैवाभाव इति कस्यासौ समस्तु ! नन्वेवमपि न तत् सिद्ध:, हेतोरसिद्धत्वात्, तदसिद्धश्चान्वयाभावत् सति हि तस्मिन् भवनमन्वयो न च तत् सत्यसिद्धिरस्ति, अन्वयाभावे च व्यतिरेकस्याप्यसिद्धिरिति, ननु कथं न तत्सत्त्वसिद्धः १ अथ
*
For Private And Personal Use Only

Page Navigation
1 ... 141 142 143 144 145 146 147 148