Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 118
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० जैनागमन्यायसंग्रहः नाम् ॥ १॥ ज्ञानं सम्यग्दृष्टदर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् ॥२७ इति । एवमष्टधाऽऽत्मनं प्ररूप्यथ यस्यात्मभेदस्य यदन्यदात्मभेदान्तरं युज्यते च न युज्यते च तस्य तदर्शयितुमाह-'जस्स ग' मित्यादि, इहाष्टौ पदानि स्थाप्यन्ते, तत्र प्रथमपदं शेषैः सप्तभिः सह चिन्त्यन्ते तत्र यस्य जीवस्य 'द्रव्यात्मा' द्रव्यात्मत्वं जीक्वमित्यर्थः तस्यकषायात्मा स्यादस्ति । कदाचिदस्ति सकषायावस्थायां 'स्यान्नाग्ति? कदाचिन्नास्ति क्षीणोपशान्तकषायावस्थायां, यस्य पुनः कषायात्माऽस्ति तस्य द्रव्यात्मा द्रव्योत्मत्वं-जीवत्वं नियमादस्ति, जीवत्वं विना कषायाणामभावादिति । तथा यस्य द्रव्यात्मा तस्य योगात्माऽस्ति, योगवतामिव, नास्ति भयोगिसिद्धानामिव, तथा यस्य योगात्मा तस्य द्रव्यात्मा नियमादस्ति, जीवत्वं विना योगानामभावात्, एतदेव पूर्वसूत्रोपमानेन दर्शयन्नाह-‘एवं जहा दवियाये' त्यादि । तथा यस्य जीवस्य द्रव्यात्मा तस्य नियमादुपयोगात्मा, यस्याप्युपयोगात्मा तस्य नियमाद् द्रव्यात्ना, एतयोः परस्परेणाविनाभूतत्वात् यथा सिद्धस्य, तदन्यस्य च द्रव्यात्मास्त्युपयोगात्मा चोपयोगलक्षत्वान्जीवानां , एतदेवाह-'जस्स दवियाये? त्यादि । तथा 'जस्स दवियाया तस्स नाणाया भयणाए जस्स पुण नाणाया तस्स दवियाया नियम अत्थि' त्ति यस्य जीवस्य द्रव्यात्मा तस्य ज्ञानात्मा स्यादस्ति यथा सम्यग्दृष्टीनो स्यान्नास्ति यथा मिथ्यादृष्टीनामित्येवं भजना, यस्य तु ज्ञानात्मा तस्य द्रव्यात्मा नियमादस्ति, यथा सिद्धस्येति 'जस्स दवियाया तस्सदसणाया नियम अत्थिा त्ति यथा सिद्धस्य केवलदर्शनं 'जस्स वि दसणाया तस्स दवियाया नियम अत्थि' ति यथा चक्षुर्दर्शनादि. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148