Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 104
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनागमन्यायसंग्रहः तव्वत्थुए, त्ति तदेव- परोपन्यम्तसाधनं वस्त्विति - उत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तद्वस्तुकोऽथवा तदेव-परोपन्यस्तं वस्तु तद्वस्तु तदेव तद्वस्तुकं तयुक्त उपन्यासोपनयोऽपि तद्वस्तुक इत्युच्यते एवमुत्तेरत्रापि, यथा कश्चिदाह-समुद्रतटे महान वृक्षोऽस्ति तच्छाखा जलस्थलयोरुपरिस्थिताः, ततपत्राणि च यानि जले निपतंति तानि जलचरा जीवाभवंति यानि च स्थले निपतंति तानि स्थलचरा इति. अन्य स्तदुपन्यस्तमवे तरुपत्रपतनवन्तु गृहीत्वा तदुक्त विघटयति, यदुत यानि पुनमध्ये तेषां का वार्तत्येतदुपपत्तिमात्रमुत्तरभूतं तद्वस्तुक उपन्यासोपनयो, ज्ञातत्त्वं चास्य ज्ञातनिमित्तत्त्वाद्, अथवा यथारूढमेव ज्ञातमेतत् , तथाहि एवं प्रयोगोऽस्यजलस्थलपतितपत्राणि • न जलचरा दिसत्वाः सम्भवन्ति, जलस्थलमध्यपतितपत्रवत् , तन्मध्यपतितपत्राणां हि जलस्थलपतिप तजलचरत्वादिप्राप्तिबदुभयरूपप्रसंगो, नचोभयरुपा: सत्वा अभ्युपगता इति , अथवा नित्यो जीव अमर्त्तत्वादाकाशदित्युक्त अाह- अनित्य एवास्तु अमूर्त्ततत्वात कमवदिति । तथा — तयन्नवत्थुए । ति तस्मात् परोपन्यस्ताद् वस्तुनोऽन्यदुत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तदन्यवस्तुको यथा जले पतितानि जलचरा इत्युक्ते एतत् विघटनाय पतनादन्यदुत्तरमाहयानि पुनः पायित्वाखादति नर्यात वा तानि किं भवन्ति १ न किञ्चिदित्य र्थोऽयमपि ज्ञापकतया ज्ञातमुक्तः, अथवा यथारूढमेव ज्ञातमेषः, तथाहि-न जलस्थलपतितानि पत्राणि जलचरादिसत्वाः सम्भवंति, मनुष्यद्याश्रितानीव, अयमभिप्रायो यथा जलाद्याश्रितत्वात् जलचरादितया तानि सम्पर्धते तथा मनुष्याद्याश्रिततया मनुष्यादिभवयूकादितयाऽपि सम्पद्यताम् , आश्रितत्वस्याविशेषात् , न च तानि तथाऽभ्युपगम्यन्ते इति जलादि गतानामपि ज For Private And Personal Use Only

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148