________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः तव्वत्थुए, त्ति तदेव- परोपन्यम्तसाधनं वस्त्विति - उत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तद्वस्तुकोऽथवा तदेव-परोपन्यस्तं वस्तु तद्वस्तु तदेव तद्वस्तुकं तयुक्त उपन्यासोपनयोऽपि तद्वस्तुक इत्युच्यते एवमुत्तेरत्रापि, यथा कश्चिदाह-समुद्रतटे महान वृक्षोऽस्ति तच्छाखा जलस्थलयोरुपरिस्थिताः, ततपत्राणि च यानि जले निपतंति तानि जलचरा जीवाभवंति यानि च स्थले निपतंति तानि स्थलचरा इति. अन्य स्तदुपन्यस्तमवे तरुपत्रपतनवन्तु गृहीत्वा तदुक्त विघटयति, यदुत यानि पुनमध्ये तेषां का वार्तत्येतदुपपत्तिमात्रमुत्तरभूतं तद्वस्तुक उपन्यासोपनयो, ज्ञातत्त्वं चास्य ज्ञातनिमित्तत्त्वाद्, अथवा यथारूढमेव ज्ञातमेतत् , तथाहि एवं प्रयोगोऽस्यजलस्थलपतितपत्राणि • न जलचरा दिसत्वाः सम्भवन्ति, जलस्थलमध्यपतितपत्रवत् , तन्मध्यपतितपत्राणां हि जलस्थलपतिप
तजलचरत्वादिप्राप्तिबदुभयरूपप्रसंगो, नचोभयरुपा: सत्वा अभ्युपगता इति , अथवा नित्यो जीव अमर्त्तत्वादाकाशदित्युक्त अाह- अनित्य एवास्तु अमूर्त्ततत्वात कमवदिति । तथा — तयन्नवत्थुए । ति तस्मात् परोपन्यस्ताद् वस्तुनोऽन्यदुत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तदन्यवस्तुको यथा जले पतितानि जलचरा इत्युक्ते एतत् विघटनाय पतनादन्यदुत्तरमाहयानि पुनः पायित्वाखादति नर्यात वा तानि किं भवन्ति १ न किञ्चिदित्य र्थोऽयमपि ज्ञापकतया ज्ञातमुक्तः, अथवा यथारूढमेव ज्ञातमेषः, तथाहि-न जलस्थलपतितानि पत्राणि जलचरादिसत्वाः सम्भवंति, मनुष्यद्याश्रितानीव, अयमभिप्रायो यथा जलाद्याश्रितत्वात् जलचरादितया तानि सम्पर्धते तथा मनुष्याद्याश्रिततया मनुष्यादिभवयूकादितयाऽपि सम्पद्यताम् , आश्रितत्वस्याविशेषात् , न च तानि तथाऽभ्युपगम्यन्ते इति जलादि गतानामपि ज
For Private And Personal Use Only