________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५
दशेनविषयः यथा नित्यः शब्दो घटवद् इह घटे नित्यत्वं नास्त्येवेति कुतस्तत् साधाच्छब्दस्य नित्यत्वमस्तु ? अपिनित्यत्वात्घटस्य तत्साधाच्छन्दस्यानित्यत्वमेवानभिमत सिध्यतोति साध्यानुपयोगीदमुदाहरणम् , तथा सन्तानोच्छेदोमोक्षो दीपस्येवेत्यभ्युपगमे दीपदृष्टान्तादनादिमतोऽपिसन्तानस्यावस्तुता प्रतीयते, तथाहिदीपस्यात्मनश्च सन्तानोच्छेद उत्तरक्षणाजनकत्वात् , तत्त्वे चार्थक्रिया कोरित्वलक्षणसत्वाभावादन्त्यक्षणस्यावस्तुत्वम् , अवस्त्त्वजनकत्वात् पूर्वक्षणस्यापि तत एव पूर्वतरस्यापीत्येवं समस्तस्यापि सन्तानस्यावस्तुत्वम् । अथक्षणान्तरानारंभेऽपि स्वगोचर ज्ञानजनन लक्षणार्थक्रियाकारित्वादन्त्यक्षणो वस्तु भविष्ट ति, नैवम्. एवं हि भूतभाविपर्याय परम्परापि योगिज्ञानं स्वविषयमुत्पादयतीति वस्तुत्वं स्वीकृर्यात् , तन्न क्षणान्तरानारंभे वस्तुत्त्व मित्यतो भवति दीपज्ञातं स्वमतदूषणावहमिति, अथवा अनित्यः शब्दः कृतकत्वाद् घटवदिति वक्तव्ये सम्भ्रमादनित्योघट: कृतकत्वाछब्ददिति वदतो दुरुपनीतमिति विपर्ययोपनयनादिति, अत्र गाथा -- 'पहम अहम्मजुत्तं पडिलोमं अत्तणो उबन्नासो दुरुवणियं च चउत्थं अहम्मजुत्तमि नलदामो । १॥ छाया-प्रथममधर्मटुक्त प्रतिलोमात्मन उपन्यास:, दुरुपनीतं च चतुर्थमधर्मयुक्ते नलदामः ।। १ ॥ पडिलोमे जह अभओ पज्जोयं हरइ अवहिओ संतो' इति "अत्तवन्नासंमि य तलायभेयंमि पिंगलो थवई । अणिमसगेण्हणभिच्छुग दुरवणीए उदाहरणं ॥ १।" छाया-- प्रतिलोम्नि यथाऽभयः प्रद्योत हरांत अपहृतः सन् । आत्मोपन्यासे च तडाक भेदे पिंगलः स्थपतिः । अनिमेषग्राहकभिक्षुदु रुपनीते उदाहरणम् ॥ १॥ इात, उक्त आहरणतदोषोऽधनोपन्यासोपनय उच्यते स च चतुर्दा, तत्र
For Private And Personal Use Only