Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनागमन्यापसंग्रहः चक्षीथाः-नायना रश्मयो निर्गत्य तमर्थं गृह्णन्ति, नायनाश्च रश्मयस्तैजसत्वान्न तेजोद्रव्यैः प्रतिस्खल्यन्ते, ततो न कश्चिद्दोषः, तदपि न मनोरम महाज्वालादौ स्खलनोपलब्धेः, तस्मादप्राप्यकारि चक्षुरिति स्थितं ॥ एवं मनसोऽप्राप्यकारित्वं भावनीयं, तत्रापि विषय कृतानुग्रहोपघाताभावाद्, अन्यथा तोयादिचिन्तायामनुग्रहोऽग्निशस्त्रादिचिन्तायांचोपघातो भवेत् , ननु दृश्यते मनसोऽपि हर्षादिभिरनुग्रहः, शरीरोपचयदर्शनात्, तथाहिहर्षप्रकर्षवशान्मनसोऽपि पुष्टता भवति, तद वशाश्च स्वशरीरस्योपचयः, तथोपघातोऽपि शोकादिभिदृश्यते, शरीरदौर्बल्योरःक्षतादिदर्शनात् , अतिशोककरणतोहि मनसो विघात: सम्भवति ततस्तद् वशाच्छरीर दोबल्यमतिचिन्तावशाच्च हृद्रोग इति, तदेतदतीवासम्बद्धं यत इह मनसोऽप्राप्यकारित्वं साध्यमानं वर्तते, विषयकृतानुग्रहोपघाताभावात्, न चेह विषयकृतानुग्रहोपघातौ त्वयामनसोदर्येते तत् कथं व्यभिचार: ?, मनस्तु स्वयं पुद्गल मयत्वाच्छरीरस्यानुग्रहोपघातौ करिष्यति, यथेष्टानिष्टरूप आहारः, तथाहिइष्टरूप आहार: परिभुज्यमानः शरीरस्यपोषमाधत्ते, अनिष्टरूपस्तूपसंघातं ( स्तूपघातं ), तथा मनोऽप्यनिष्टपुद्गलोपचितमति शोकादिचिन्तानिय न्धनं शरीरस्य हानिमादधाति, इष्टपुद्गलोपचित्तं च हर्षादिकारणं पुष्टिं, उक्तश्च - " इटानिट्ठाहारऽन्भवहारे होति पुट्ठिहाणिओ । जहतहमणसो ताओ पुग्गलगुणउत्ति को दोसो ? ॥१॥ छाया-इष्टानिष्टाहाराभ्यवहारे भवत: पुष्टिहानी । यथा तथा मनसस्ते पुद्गलगुणत्वादिति को दोषः । ॥ १ ॥ तस्मान्मनोऽपि विषयकृतानुग्रहोपघाताभावादप्राप्यकारीति स्थितं, " इह सुगतमतानुसारिण: श्रोत्रमप्यप्राप्यकारि प्रपद्यन्ते, तथा च तदनथः- "चक्षुःश्रोत्रंमनोऽप्राप्यकारी " ति तदयुक्त, इहा प्राप्यकारि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148