________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यापसंग्रहः चक्षीथाः-नायना रश्मयो निर्गत्य तमर्थं गृह्णन्ति, नायनाश्च रश्मयस्तैजसत्वान्न तेजोद्रव्यैः प्रतिस्खल्यन्ते, ततो न कश्चिद्दोषः, तदपि न मनोरम महाज्वालादौ स्खलनोपलब्धेः, तस्मादप्राप्यकारि चक्षुरिति स्थितं ॥ एवं मनसोऽप्राप्यकारित्वं भावनीयं, तत्रापि विषय कृतानुग्रहोपघाताभावाद्, अन्यथा तोयादिचिन्तायामनुग्रहोऽग्निशस्त्रादिचिन्तायांचोपघातो भवेत् , ननु दृश्यते मनसोऽपि हर्षादिभिरनुग्रहः, शरीरोपचयदर्शनात्, तथाहिहर्षप्रकर्षवशान्मनसोऽपि पुष्टता भवति, तद वशाश्च स्वशरीरस्योपचयः, तथोपघातोऽपि शोकादिभिदृश्यते, शरीरदौर्बल्योरःक्षतादिदर्शनात् , अतिशोककरणतोहि मनसो विघात: सम्भवति ततस्तद् वशाच्छरीर दोबल्यमतिचिन्तावशाच्च हृद्रोग इति, तदेतदतीवासम्बद्धं यत इह मनसोऽप्राप्यकारित्वं साध्यमानं वर्तते, विषयकृतानुग्रहोपघाताभावात्, न चेह विषयकृतानुग्रहोपघातौ त्वयामनसोदर्येते तत् कथं व्यभिचार: ?, मनस्तु स्वयं पुद्गल मयत्वाच्छरीरस्यानुग्रहोपघातौ करिष्यति, यथेष्टानिष्टरूप आहारः, तथाहिइष्टरूप आहार: परिभुज्यमानः शरीरस्यपोषमाधत्ते, अनिष्टरूपस्तूपसंघातं ( स्तूपघातं ), तथा मनोऽप्यनिष्टपुद्गलोपचितमति शोकादिचिन्तानिय न्धनं शरीरस्य हानिमादधाति, इष्टपुद्गलोपचित्तं च हर्षादिकारणं पुष्टिं, उक्तश्च - " इटानिट्ठाहारऽन्भवहारे होति पुट्ठिहाणिओ । जहतहमणसो ताओ पुग्गलगुणउत्ति को दोसो ? ॥१॥ छाया-इष्टानिष्टाहाराभ्यवहारे भवत: पुष्टिहानी । यथा तथा मनसस्ते पुद्गलगुणत्वादिति को दोषः । ॥ १ ॥ तस्मान्मनोऽपि विषयकृतानुग्रहोपघाताभावादप्राप्यकारीति स्थितं, " इह सुगतमतानुसारिण: श्रोत्रमप्यप्राप्यकारि प्रपद्यन्ते, तथा च तदनथः- "चक्षुःश्रोत्रंमनोऽप्राप्यकारी " ति तदयुक्त, इहा प्राप्यकारि
For Private And Personal Use Only