________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ܕ
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतनिश्रितम्
५७
"
दृष्टान्तस्य साध्यविकलत्वात् न खलु मनोऽप्यशेषान् विषयान् गृह्णाति, तस्यापि सूक्ष्मेष्वागमगम्यादिष्वर्थेषु मोहदर्शनात्, तस्माद् यथा मनोप्राप्यकार्यपि स्वावरणक्षयोपशमसापेचत्वात् नियतविषयं तथा चतुरपि स्वावरणक्षयोपशमसापेक्षत्वदप्राप्यकार्यपि योग्यदेशावस्थितनियतविषयमिति न व्यवहितानामुपलम्भप्रसङ्गो नापि दूरदेशस्थितानामिति । अपिच दृष्टमप्राप्यकारित्वेऽपि तथास्वभावविशेषाद्द्योग्यदेशापेक्षणं यथाऽयस्कान्तस्य न खल्वयस्कान्तोऽयसोऽप्राप्यकपणे प्रवर्तमानः सर्वस्याप्ययसो जगद् afda aint भवति, किन्तु प्रतिनियतस्यैव, ( यत्तु ) शंकरस्वामी प्राह"अयस्कान्तोऽपि प्राप्यकारी, श्रयस्कान्तच्छायारणुभिः सह समाकृष्यमारण वस्तुन: सम्बन्धभावात्, केवलं ते छायारणवः सूक्ष्मत्वान्नोपलभ्यन्ते " इति तदेतदुन्मत्तप्रलपितु तद्ग्राहक प्रमाणाभावात् नहि तत्र छायारसम्भवप्रा हकं प्रमाणमस्ति, न चाप्रमाणकं प्रतिपत्तु ं शक्नुमः, अथास्ति ग्राहकं प्रमा णमनुमानं, इह यदाकर्षणं तत् संसर्गपूर्वकं यथाऽयो गोलकस्य सन्दंशेन कर्षणं चायसोऽयस्कान्तेन, तंत्र साक्षादयस्कान्ते संसर्गः प्रत्यक्ष बाधित इत्यर्थात् छायाभिः सह द्रष्टव्य इति, तदपि बालिशजल्पितं, हेतोरनैकान्तिकत्वात्, मंत्रेण व्यभिचारात्, तथाहि-- मंत्रः स्मर्यमाणोऽपि विवक्षितं वस्त्वकर्षति, न च तत्र कोऽपि संसर्गः इति, अपिच - यथा छायाणवः प्राप्तमयः समाकर्षन्ति तथा काष्ठादिकमपि प्राप्तं कस्मान्नाकन्ति, शक्तिप्रतिनियमादिति चेत् ननु स शक्तिप्रति नियमोऽप्राप्तावपि तुल्य एवेति व्यर्थे छायापरिकल्पनं । अन्यस्त्वाह-अस्ति चक्षुषः प्राप्यकारित्वे व्यवहितार्थानुपलब्धिरनुमानं प्रमाणं तदयुक्त, अत्रापि हेतोरनै कान्तिकत्वात् काचाभ्रपटलस्फटिकैरन्तरितस्याप्युपलब्धेः,
अथेदमा
For Private And Personal Use Only