________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
जैनागमन्यायसंग्रहः प्नुवन्ति ततश्चतु:सम्प्राप्तास्ते स्पर्शनेन्द्रियमिव चतुरुपघ्नन्ति, शीतांशुरश्मयश्च स्वभावत एव शीतलत्वादनुग्राहकाः, ततस्ते चक्षुःसम्प्राप्ताः सन्तस्ते स्पर्शनेन्द्रियमिव चक्षुरमुगृह्णन्ति, तरंग मालासंकुलजलावलोकने च जलकणसंपृक्तसमोरावयवसंस्पर्शतोऽनुग्रहो भवति, शाब्बलतरुमण्डलावलोकनेऽपि शाड्बलतरुच्छाया सम्पर्कशीती भूतसमीरणसंस्पर्शात् , शेषकालं तु जलवालोकनेऽनुग्रहाभिमान उपघाताभावादवसेयः, भवाते चोपधाताभावेऽनुग्रहाभिमानो यथाऽति सूक्ष्माक्षरनिरीक्षणद्विनिवृत्य यथासुखं नीलीरक्तवस्त्राद्यावलोकने, इत्थं चैतदङ्गीकर्त्तव्यं अन्यथा समाने संपर्के यथा सूर्यमीक्षमाणस्य सूर्येणोपघातो भवति तथा हुतवहजलशूलाद्यालोकने दाहक्लेदपाटनादयोऽपि कस्मान्न भवन्तीति ? । अपि च यदि चक्षुः प्राप्यकारि तहि स्वदेशगतरजोमलाजनशिलाकादिकं किं न पश्यति ?, तस्मात्प्राप्यकार्येवचक्षु । ननुयदि चक्षुरप्राप्यकारितहि मनोवत् कस्मादविशेषेण सर्वानपि दूर व्यवहितादीनान् न गृह्णाति ? यदि हि प्राप्तेपरिच्छिन्द्यात्तर्हि यदेवानावृत्तमदूरदेशं वा तदेव गृह्णोयात् नावृत्तं दूरदेशं वा, तत्र चक्षुरश्मीनां गमनासंभवः सम्पाभावात् , ततो युज्यते चक्षुषो ग्रहणाग्रहणे, नान्यथा, तथाचोक्तं-प्राप्याकारिचक्षुः उपलब्ध्यनुपलब्ध्योरनावरणेतरानपेक्षणात् अदूरेतरापेक्षणाच्चा' यदि हि चक्षुरप्राप्यकारिभवेत्तदाऽऽवरणभावादनुपलब्धिः अन्यथोपलब्धिरिति न स्यात् , नहि तदावरणमयघातकरणसमर्थ, प्राप्यकारित्वे तु मूर्त्तद्रव्य प्रतिघाताद् उपपत्तिमान् व्याघातोऽतिदूरे च गमनाभावादिति, प्रयोगश्चा त्र-न चक्षुषोविषयारिमाणं, अप्राप्यकारित्वात् मनोवत् तदेतद्युक्ततरम्
For Private And Personal Use Only