________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुननिश्रितम् ग्गहे (सू २६)
टीका :-'से किं त' मित्यादि, अथ कोऽयं व्यञ्जनावयह: ? आचार्य आह- व्यनजावग्रहश्चतुर्विधः प्रज्ञप्तः, तद्यथा- "श्रोत्रेन्द्रयव्यञ्जनावग्रह' इत्यादि, अत्राह-सत्सु पञ्चस्विन्द्रियेषु षष्ठे च मनसि कस्मादयं चतुर्विधो व्यावण्यते ?, उच्यते, इह व्यञ्जनमुपकरणेन्द्रियस्थ शब्दादिद्रव्याणाश्च परस्परं सम्बन्ध उच्यते, सम्बन्धश्चतुर्णामेव श्रोत्रेन्द्रि यादोनां, न नयनमनसोः तयोरप्रोप्यकारित्वात् , अाह-कथमप्राप्यकारित्वं तयोरवसीयते १ उच्यते विषयकृतानुग्रहोपघाताभावात् , तथाहियदि प्राप्तमर्थं चक्षुर्मनो वा गृह्णीयात् तहिं यथा स्पर्शनेन्द्रियं सक चन्दनादिकं अङ्गारादिकं च प्राप्तमर्थ परिच्छिन्दत्तत्कृतानुग्रहोपधातभाम् भवति तथा चक्षुर्मनसी अपि भवेतां विशेषाभावात् न च भवतः तस्मादप्राप्यकारिणी ते, ननु दृश्यते एव चक्षुषोऽपि विषयकृतानुग्रहोपधातो, तथाहि-घनपटलविनिमुक्तेि नभसि सवतो निविडजरटिमोपेतं-कर प्रसरमभिसर्पयन्तमंशुमालिनमनवरतमवलोकमानस्य भवति चक्षुसो विघातः, ५शाङ्ककरकदम्बकं यदिवा तरङ्गमालोपशोभितं जलं तरुमण्डलञ्च शाद्वलं निरंतरं निरीक्षमाणस्य चानुग्रहः, तदेतदपरिभावितभाषितं, यतो न बम: सर्वथा विषयकृतानुपग्रहोपघातौ न भवतः, किन्त्वेतावदेव वदामो-यदा विषयं विषतया चक्षुरवलम्वते तदा तत्कृतावनुग्रहोपघाती तस्य न भवत इति तदप्राप्यकारि, शेषकालं तु प्राप्तेनोपघातकेनोपघातो भविष्यति अनुप्राहकेण चानुग्रहः, तत्रांशुमालिनो रश्मयः सर्वत्रापि प्र. सरमुपदधाना यदांऽशुमालिन: सम्मुखमीक्षते तदा ते चक्षुर्देशमपि प्रा
For Private And Personal Use Only