________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः कणेषु प्रत्येकमसति तैललेशे समुदायेऽपितैलं समुद्भवदुपलभ्यते, अस्ति च चरमसमये प्रभूतशब्दादिद्रव्यसम्पृक्तौ ज्ञानं ततः प्राक्तने ध्वपि समयेषु स्तोकस्तोकतरैरपि शब्दादिपरिणतद्रव्यैः सम्बन्धे का चिदव्यक्ता ज्ञानमात्राऽभ्युपगंतव्या, अन्यथा चरमसमयेऽपि ज्ञानानुपपत्तेः तथा चोक्त ---"जं सव्वहा न वीसु सव्वेसुवि तं न रेणुतेलंब । पत्तेयमणिछतो कहमिच्छसि समुदये नाणं ॥५॥ छाया - यत् सर्वथा न विष्वक सर्वेष्वपि नत् न रेणु तैलवत् । प्रत्येकमनिच्छन् कथमिच्छसि समुदाये ज्ञानम् ॥ १ ॥ ततः स्थितमेतत्-व्यञ्जनावग्रहो ज्ञानरूप: केवलं तेषु ज्ञानमव्यक्तमेव वोद्धव्यं । च शब्दौ स्वगतानेकभेदसूचकौ । ते च स्वागता अनेक भेदो अग्र' स्वयमेव सूत्रकृता वर्णयिष्यन्ते, आह-प्रथमं व्यज्जनावग्रहो भवति ततोऽर्थावग्रहः, ततः कस्मादिह प्रथममर्थावग्रह उपन्यस्तः ?, उच्यते, स्पष्टतयोपलभ्य मानत्वात्, तथाहि-अर्थावग्रहः स्पष्टरूपतयासर्वैरपि जन्तुभिः संवेद्यते, शीघ्रतरगमनादौ सकृत् सत्वरमुपलम्भे मया किञ्जिद दृष्टं परं न परि भावितं सम्यगिति, व्यवहारदर्शनात् , अपि च-अर्थावग्रहः सर्वेन्द्रियमनोभावी व्यञ्जनावग्रहस्तु नेति प्रथममर्थावग्रहः उक्त: ॥ सम्प्रतितु व्यञ्जनावग्रहाद् ऊर्ध्वमर्थावग्रह इति क्रममाश्रित्य प्रथमं व्यञ्जनावग्रह स्वरूपं प्रतिपिपादयिषुः शिष्य प्रश्नं कारयति
· मृल :-“से किं तं वंजणुग्गहे ? वंजणग्गहे चउविहे पएणत्ते, तंजहा सोइंदिअ वंजणुग्गहे पाणिदिय वंजणुग्गहे जिभिंदिय वंजणुग्गहे फासिदिश वंजणुग्गहे । से तं वंजणु
For Private And Personal Use Only