________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतनिश्रितम् सम्बध्यमानस्य शब्दादि रूपस्यार्थस्याव्यक्तरूप: परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यज्यते इति व्यञ्जनानि, 'कृबहुल' मिति वचनात् 'कर्मण्यनट व्यञ्जनानां शब्दादिरूपतयापरिणतानां द्रव्याणामुपकरणेन्द्रियसम्प्रा. प्तानामवग्रह:- अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, व्यज्यतेऽनेनार्थः प्रदीपेनेव घटः इति व्यञ्जन-उपकरणेन्द्रियं तेन स्वसम्बद्धस्यार्थस्य-शब्दादे रवग्रहणम्-अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, इयमत्र भावना-उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धे प्रथम समयादारभ्यार्थावग्रहात् प्राक् या सुप्तमत्तमूच्छितादिपुरुषाणामिव शब्दादिद्रव्यसम्बन्धमात्र विषया काचिदव्यक्ता ज्ञानमात्रा सा व्यञ्ज नावग्रहः, स चा तमुहूत्तंप्रमाणः। अत्राह --ननु व्यञ्जनावग्रहवेलायां न किमपि संवेदनं संवेद्यते, तत् कथमसौ ज्ञानरुपो गीयते ? उच्यते, अव्यक्तत्वान्न संवेद्य ते, ततो न कश्चिद्दोषः, तथाहि-यदि प्रथमसमयेऽपि शब्दादिपरिणतद्रव्यैरुपकरणेन्द्रियस्य सम्पृक्तौ काचिदपि न ज्ञानमात्रा भवेत्, ततो द्वितीयेऽपि समये न भवेत, विशेषाभावात्, एवं यावञ्चरमसमयेऽपि, अथ च चरमसमये ज्ञानम
र्थावप्रहरूपं जायमानमुपलभ्यते, ततः प्रागपि कापि कियती ज्ञान मात्रा द्रष्टव्या, अथ मन्येथाः --माभूत् प्रथमसमयादिषु शब्दादिपरिणत द्रव्य सम्बन्धेऽपि काचिदपि ज्ञानमात्रा, शब्दादिपरिणतद्रव्याणां तेषु समयेषु स्तोकत्वात, चरमसमये तु भविष्यति, शब्दोदिरूपपरिणतद्रव्य समूहस्य तदानीं भूयसो भावात् , तदयुक्त', यतो यदि प्रथमसमयादिषु शब्दादिद्रव्याणां स्तोकत्वात् सम्पृक्तावव्यक्ताऽपि काचिदपि ज्ञानमात्रा न समुल्लसेत् , तर्हि प्रभूतसमुदायसम्पर्केऽपि न भवेत , न खलु सिकता
For Private And Personal Use Only