________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः ततस्तयाऽऽहितो यः संस्कारः स वासना, सा च संख्येयमसंख्येयं वा कालं यावद् भवति, ततः कालान्तरे कुतश्चित्ताहरार्थ दर्शनादि कारणात् संस्कारस्य प्रवोधे यज ज्ञानमुदयते-तदेवेदं यत् मया प्राग उपलब्धमित्यादि रूपं सा स्मृतिः, उक्तञ्च तदनंतरं तदत्याविच्चवणं जो उ वासणा जोगो । कालंतरेण जे पुण अनुसरणं धारणा सा उ ॥ १॥ छाया -तदनन्तरं तदर्थ विच्यवनं यस्तु वासना योगः। कालान्तरे यत् पुनरनुस्मरणं धारणा सा तु ॥१॥ एताश्चाविच्युतिवासनास्मृतयो धारणालक्षण सामान्यान्यर्थयोगाद् धारणा शब्द वाच्याः ।।
मूलः-से कि तं उग्गहें ? उग्गहे दुविहे पण्णत्ते, तंजहाअत्थुग्गहे अ वंजणुग्गहे अ (सू० २८) ___टीका :-"से किं त” मित्यादि; अथ कोऽयमवग्रहः ? सूरि राह अवग्रहो द्विविधा प्रज्ञप्तः तद्यथा-अर्थावग्रहश्च व्यञ्जनावग्रहश्च, तत्र अर्थ्यते इत्यथैः अर्थस्यावग्रहणं अर्थावग्रह:-सकल रूपादिविशेष निरपेक्षा निर्देश्यसामान्यमात्र रूपार्थ ग्रहणमेकसामायकमित्यर्थः, तथा व्यज्यते अनेनार्थऽप्रदीपेनेव घट इति व्यञ्जनं, तचोपकरणेन्द्रियस्य श्रोत्रादे: शब्दादिपरिणत द्रव्याणां च परस्परं सम्बन्धः, सम्बन्धे हि सति सोऽर्थ शब्दादि रूपः श्रोत्रादीन्द्रियेण व्यञ्जयितु शक्यते, नान्यथा, ततः सम्बन्धो व्यञ्जनं, तथाचाह भाष्यक्रत्- "वजिज्जइ जेणऽथो घडोव दीवेण वंजणं तं च । उवगरणिदि य सद्दाइ परिणयद्दव्य संबंधो ॥१॥ छाया-व्यज्यते येनार्थो घट इव दीपेन व्यञ्जनं तच्च । उपकरणेन्द्रिय शब्दादिपरिणतद्रव्यसम्बधः ॥१॥ व्यजनेन-सम्बन्धेनावग्रहणं
For Private And Personal Use Only