________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतनिश्रितम्
५६ तत्प्रतिपत्त शक्यते यस्य विषयकृतानुग्रहोपघाताभावो, यथा चक्षुर्मनसोः, श्रोत्रस्य च शब्दकृत उपघातो दृश्यते, सद्योजात वालकस्य समीपे महा-- प्रयत्नताडितझल्लरोझात्कारश्रवणतो यद्वा विद्युत् प्रपाते तत् प्रत्यासन्नदेशवर्तिनां निर्घोषश्रवणतो वधिरीभावदर्शनात, शब्दपरमाणवो हि उत्पत्तिदेशादारभ्य सर्वतो जलतरङ्गन्यायेन प्रसरमभिगृह्णानाः श्रोत्रेन्द्रियदेशमागच्छन्ति, ततः सम्भवत्युपघातः, ननु यदि श्रोत्रेन्द्रियं देशं प्राप्तमेव शब्दं गृह्णाति नाप्राप्तं तर्हि यथा गन्धादौ गृह्यमाणे न तत्र दूरासन्नादि तया भेदप्रतोतिरेवं शब्देऽपि न स्यात्, प्राप्तो हि विषयः परिच्छिद्यमानः सर्वोऽपि सन्निहित एव, तत कथं तत्र दूरासन्नादिभेदप्रतीतिर्भवितुमर्हति ?, अथ च प्रतीयते शब्दो दूरासन्नादितया, तथा च लोके वक्तार: श्रूयन्ते,-कस्यापि दूरे शब्द इति, अन्यच्च-यदि प्राप्तः शब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाण्डालोक्तोऽपि शब्दः श्रोत्रियेण श्रोत्रेन्द्रियसंस्पृष्टो गृह्यते इति श्रोत्रेन्द्रियस्य चाण्डालस्पर्शदोषप्रसंगः, तन्न श्रेयः श्रोत्रेन्द्रियस्ट प्राप्यकारित्वं, तदेतदतिमहामोहस्य मलीमसभाषितं त (य) तो यद्यपि शब्द प्राप्यो गृह्यते अत्रेन्द्रियेण तथापि यत उत्थितः शब्दस्तस्य दूरास नत्वे शब्देऽपि स्वभाववैचिन्यसंभवोह रासन्नादिभेदप्रतीतिर्भवति, तथाहि-दूरा दागतः शब्दः क्षीणशक्तिकत्वात्खिन्न उपलक्ष्यते अस्पष्टरूपो वा, ततो लोको वदति-दूरे शब्दः श्रूयते, अस्य च वाक्यस्यायं भावार्थों-दूरादाग तः शब्दः श्रूयते इति, स्यादेतत्-एवमति प्रसंग प्राप्नोति, तथाहि-एतदीप बक्तु शक्यते-दूरे रूपमुपलभ्यते, किमुक्तभवति ? -दूरागतं रूपमुपलभ्यते इति, ततश्चक्षुरपि प्राप्यकरि प्राप्नोति, नचेष्यते, तस्मा
नैतत् समीचीनमिति, तदयुक्तं, यत इह चक्षुषो रूपकतावनुग्रहोपघातौ
For Private And Personal Use Only