________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंदहः नोपलभ्येते, श्रोत्रेन्द्रियस्य तु शब्दकृत उपघातोऽस्ति, एतच्चप्रागेवोक्तं, ततो नातिप्रसंगापानमुपपत्तिमत् , अन्यञ्च-प्रत्यासन्नोऽपि जनः पचनस्य प्रांतकूलमवतिष्ठमानः शब्दं न शृणोति; पवनवमनि तु वर्तमानो दूरदेश स्थितोऽपि शृणोति, तथाचलोके वक्तारो-न वयं प्रत्यासन्ना अपि त्वदीयं वचः शृणुमः, पवनस्य प्रतिकूलमवस्थानात, यदि पुनरप्राप्तमेव शब्द रूपमिव जना: प्रमिणुयुः, तर्हि वातस्य प्रतिकूलमप्यवतिष्ठमाना रूपमिवशब्दं प्रमिणुयुः, न च प्रमिण्वन्ति, तस्मात् प्राप्ता एव शब्द परमाणवः श्रोत्रेन्द्रियेण गृह्यन्ते इति अवश्यमभ्युपगन्तव्यम् , तथा च सति पवनस्य प्रतिकूलमवष्ठिमानानां श्रोत्रेन्द्रियं न शब्दप्रमाणवो वैपुल्येन प्राप्नुवन्ति, तेषामन्यथा वातेन नीयमानत्वात् , ततो न ते शृण्वन्तीति न काचित् क्षतिः, यदपि चोक्तं चाण्डालस्पर्शदोषः प्राप्नोती तिः, तदपि चेतनाविकलपुरुषभाषितमिवासमीचीनं, स्पर्शास्पर्शव्यवस्थाया लोके काल्पनित्वात् , तथाहि-न स्पर्शव्यवस्था लोके पारमार्थिकी, तथाहियामेव भुवमने चाण्डालः स्पृशन् प्रयाति तामेव पृष्टतः श्रोत्रियोऽपि, तथा यामेव नावमारोहति स्म चाण्डालस्तामेवारोहति श्रोत्रियोऽपि, तथा स एव मारुतश्चाण्डालमपि स्पृष्ट्वा श्रोत्रियमपि स्पृशति, न च तत्र लोके स्पर्शदोषव्यवस्था, तथा शब्दपुद्गलस्पर्शेऽपि न भवतीतिनकश्चिद्दोषः, अपि च-यथा केतकीदलनिचयं शतपत्रादिपुष्पनिचयं वा शिरसि निवध्य वपुषि वा मृगमदचन्दनाद्यवलेपनमारचय्यविपणिवीथ्यमागत्यचाण्डालोऽवतिष्ठते तदा तद्गतकेतकीदलादिगंधपुद्गलाः श्रोत्रियादि नासिकास्वपि प्रविशन्ति, ततस्तत्रापि चाण्डालस्पर्शदोषः प्राप्नोतीति तद् दोषभयान्नासिकेन्द्रियमप्राप्यकारि प्रतिपत्तव्यं, न चैतद् भवतोऽप्यागमे
For Private And Personal Use Only