________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतनिश्रितम् प्रतिपाद्यते, ततो बालिशजल्पितमेतदिति कृतं प्रसंगेन । केचित्पुनः श्रोत्रेन्द्रिस्य प्राप्यकारित्वमभ्युपगच्छन्त: शब्दस्याम्बरगुणत्वं प्रतिपद्यन्ते, तदयुक्तं, अकाशगुणतायां शब्दस्यामूर्त्तत्त्वप्रसक्तेः, योहि यदगुण: स तत्समानधर्मा, यथा ज्ञानमात्मनः, तथाहि - अमूर्त आत्मा, ततस्तद् गुणो ज्ञानमायमूर्तमेव, एवं शब्दोऽपि यद्याकाशगुणस्ता काशस्यामूर्त्तत्वाच्छब्दस्याप तदगुणत्त्वेनामूर्तता भवेत् , न चासौ युक्तिसंगता, तल्लक्षणायोगात् , मूर्तिविरहो ह्यमूर्तताया लक्षणं, न च शब्दानां मूर्तिविरहः, स्पशवत्त्वात् , तथाहि - स्पशेवन्तः शब्दाः, तत्संपळदुपघातदर्शनाल्लोष्टवत् , न चायमसिद्धो हेतुः, यतो दृश्यते सद्योजातबालकानां करणदेशाभ्यीकृतगादास्फालितझलरीझात्कारश्रवणतः श्रवणस्फोटो, न चेस्थमुपधातकृत्त्वमस्पशेवत्वे सम्भवति, यथा विहायसः, ततो विपक्षे गमनासम्भवान्नानैकान्तिकोऽपि, अतश्च स्पर्शवन्तः शब्दाः, तैरभिघाते गिरिगहरभित्यादिषु शब्दोत्थानाल्लोष्टवत्,अयमपि हेतुरुभयोरपि सिद्धिः,तथाहि-- श्रूयन्ते तीव्रप्रयत्नोच्चारितशब्दाभिघातेगिरिगह्वरादिषु प्रतिशब्दाः प्रति दिक् , ततः स्पर्शवत्त्वान्मूर्ती एव शब्दाः, "रूपस्पर्शादिसन्निवेशो मूर्ति रिति वचन प्रामाण्यात , ततः कथमिवाकाशगुणत्वं शब्दानामुपपत्तिमन्, १ । अपि च-तदाकाशमेकमनेकं वा १ यद्येकं तर्हि योजनलक्षादपि श्रूयते,
आकाशस्यैकत्वेन शब्दस्य तद्गुणतया दूरासन्नादिभेदाभावात, अथानेकमे. वं सति वदनदेश एव स विद्यते इति कथं भिन्नदेशवर्तिभिः श्रोतृभिः श्रयते?, वदनदेशाकाशगुणतया तस्य श्रोतृगतश्रोत्रेन्द्रियाकाशसन्बन्धाभावात् अथ च श्रोत्रेन्द्रियाकाशसबन्धतया तच्छ्रवणमभ्युपगम्यते, तन्नाकाश गुणत्वाभ्युपगमः शब्दस्य श्रेयान्, नन्वाकाशगुणत्त्वमन्तरेण शब्दस्याव
For Private And Personal Use Only