________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः स्थानमेव नोपपद्यते, अवश्यहि पदार्थेन स्थितिमता भवितव्यं, तत्र रूपरसस्पर्शगंधानां पृथिव्यादिमहाभूतचतुष्टयमाश्रयः, शब्दस्य त्वाकाशमिति, तदयुक्त, एवं सति पृथिव्यादीनामध्याकाशगुणत्वप्रसक्तेः, तेषामप्याकाशानितत्वात्, न खल्वाकशमन्तरेणपृथिव्यादीनामप्यन्यदाश्रयः, अगुणत्वात्पृथिव्यादीनामाकाशगुणत्वमनुपपन्नमितिचेत्, न, आकाशानितत्त्वेन भवन्नीत्याबलादपि तद् गुणत्वप्रसक्ते , अथ नाश्रयण मात्रं तद् गुणत्व निवन्धनं किन्तु समवायः, सचास्ति शब्दस्याकाशे न तुपृथिव्यादीनामिति, ननुकोऽयं समवायो नाम ? एकत्रलोलीभावे नावस्थानं यथा पृथिव्यादिरूपाद्योरितिचेत्, न तर्हि शब्दस्य काशगुत्व माकाशेनसहैकत्र लोलीभावेन तम्याप्रतिपत्तेः, अथाऽऽकाशे उपलभ्यमानत्वा त्तद्गुणताशब्दस्य, तूलकादेरपि ताकाशे उपलभ्यमानत्वात्तद्गुणत्वं प्राप्नोति, अथ तुलकादेः परमार्थतः पृथिव्यादिस्थानमाकाशेतूपलम्भो वायुना सञ्चाय॑माणत्वात्, यद्येवं तर्हि शब्दस्यापि न परमार्थतः स्थानमोकाशं किन्तु श्रोत्रादि, यत् पुनराकाशेऽवस्थानमुपलभ्यते तद् वायुना सञ्चाय॑माणत्वादवसेयं, तथाहि-यतो यतो वायुः सञ्चरति ततस्ततः शब्दोऽपिगच्छति, वातप्रतिकूलशब्दस्याश्रवणात. उक्तं च- "यथा च प्रेयते तूलमाकाशे मातरिश्वना । तथा शब्दोऽपि किं वायोः, प्रतीपं कोऽपि शब्दवित्" तन्नाकाशगुणः शब्दः किन्तु पुद्गलमय इति स्थितम् ॥
मूलः-से कि तं अत्थुग्गहे ? अत्थुग्गहे छबिहेपएणत्ते, तंजहा सोइंदिअअत्थुग्गहे चक्खिंदिश अत्थुग्गहे, घाणिदिन अत्थुग्गहे । जिभिदिन अत्थुग्गहे फासिदिन अत्थुग्गहे नोई
For Private And Personal Use Only