________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतनिश्रितम् दिअ अत्युग्गहे ॥ (सू० ३०)
टीका :-अथ कतिविधोऽयमर्थावग्रहः ।, सूरिराह -अर्थावग्रहः षडविधः प्रज्ञप्तः, तद्यथा यथा - 'श्रोत्रेन्द्रियार्थावग्रहः' इत्यादि, श्रोत्रेन्द्रियार्थावग्रहः, ( श्रोत्रेन्द्रियेण ) व्यञ्जनावग्रहोत्तरकालमेकसामायिकर्मान
देश्यसामान्यरूपार्थावग्रहणं श्रोत्रंन्द्रियार्थावग्रहः , एवं घ्राणजिह्वास्पर्शनेन्द्रयोग्रहेष्वपि वच्यं, चक्षुर्मनसोस्तु व्यञ्जनावग्रहो न भवति, ततस्तयोः प्रथममेव स्वरूपद्रव्यगुणक्रियाविकल्पनातीतमनिर्देश्यं सामान्यमात्रारूपार्थवग्रहणमर्थावग्रहोऽवसेयः । तत्र "नोइंदिय अत्थावगहो” त्ति नो इन्द्रियंमनः, तच्चद्विधा-द्रव्यरूपं भावरूपं च, तत्र मनःपर्याप्तिनामकर्मोदयतो यह मनः प्रायोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमितं तद्व्यरूपमनः, तथा चाह चूषिणकृत् - "मणपञ्जत्ति नाम कम्मोदयओ तज्जोग्गे मणोद्दव्वे घेत्तु भणत्तेण परिणामिया दव्यादबमणो भण्णइ तथा द्रव्यमनोऽ. वष्ठम्भेन जीवस्य यो मननपरिणामः स भावमनः, तथा चाह चूर्णिकार एव – “जीवो पुण मणणपारणामकिरिया पन्नो भावमणो, किं भणियं होइ ?-मणदव्यालंवणो जीवस्स मणणवा वारो भावमणो, भएणइ” तत्रेह भावमनसा प्रयोजन, तदग्रहणे ह्यवश्यद्रव्यमनसोऽपि ग्रहणं भवति, द्रव्यमनोऽन्तरेणभावमनसोऽसम्भवात् , भावमनो विनापि च द्रव्य मनो भवति, यथा भवस्थ केवलिनः, तत् उच्यते-भावमनसेह प्रयोजनं, तत्र नोन्द्रियेण-भावमनसाऽर्थावग्रहो द्रव्येन्द्रियव्यापारनिरपेक्षोघटाद्यर्थ स्वरूपपरिभावनाभिमुखः प्रथममेकसामायिकोरूपाद्यर्थाकारादिविशेषचिन्ता विकलोऽनिर्देश्यसामान्यमा चिन्तात्मकोवोधो नो इन्द्रियार्थावग्रहः ।।
For Private And Personal Use Only