________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः
भूल -तस्स णं इमे एगढिया नाणाघोसा नानावंजणा पंच नामधिज्जा भवन्ति, तंजहा-ओगेण्हणया उवधारणया सवणया अवलंबणया मेहा । सेत्तं उग्गहे सू० ३१)
टोका :-'तस्य' सामान्येनावग्रहस्य “ण” मिति वाक्यालंकारे 'अमूनि वक्ष्यमाणानि एकार्थिकानि 'नाना घोसाणि त्ति घोषा:- उदात्तादयः स्वरविशेषाः, आह च चूर्णिकृत- "घोसा उदात्तादओ सरविसेसा” नाना घोषा येषां तानि नानाघोपाणि, तथा नानाव्यञ्जनानि-कादीनि येषां तानि नाना व्यञ्जनानि, पञ्चनामान्येव नामधेयानि भवन्ति, 'तयथे' ति तेषामेवो. पदर्शने, 'भोगिरहणया' इत्यादि, यदा पुनरवग्रहविशेषानपेक्ष्यामूनि पञ्चापिनामधेयानि चिन्त्यन्ते तदा परस्परंभिन्नार्थानि वेदितव्यानि, तथाहि-इहावग्रहस्त्रिधा, तद्यथा-व्यञ्जनावग्रहः सामान्यार्थावग्रहो विशेषसामान्यार्थावग्रहश्च, तत्र विवेषसामान्यर्थावग्रह औपचारिकः, सचानन्तरमेवाग्रदर्शयिष्यते, तत्र ‘ोगिण्हणय' त्ति अवगृह्यतेऽनेनेति अवग्रहणं, करणेऽनट, व्यञ्जनावग्रहप्रथमसमयप्रविष्टशब्दादिपुद्गलादानपरिणामः, तद् भावोऽवग्रहणता । तथा 'उवधारणय' त्ति धार्यतेऽनेनेतिधारणं, उप-सामीप्येनधारणं उपधारणं-- व्यञ्जनावग्रहेऽपि द्वितीयादि समयेषुप्रतिसमयमपूवापूर्वशब्दादि पुद्गलादानपुरस्सरं प्राक्तनप्राक्तनसमयगृहीतशब्दादिपुद्गलधारणपरिणामः तद् भाव उपधारणता, तथा “स वणय” त्ति श्रूयतेऽनेनेति श्रवणम् - एकसामायिक: सामान्यार्थावग्रहरूपो , बोधपरिणामः तदभावः श्रवणता, तथा 'अवलंबणय ति अवलम्ब्यते इति अवलम्बन, 'कृबहुल' मिति वचनात् कर्मण्यनट् , विशेषसामान्यार्थावग्रहः
For Private And Personal Use Only