Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ 27 साधुगुणाः एके व्याचक्षते / अन्ये त्वाषाढाद्याः संवत्सरा इति / तदाद्यदिने ज्येष्ठपूर्णिमानन्तरप्रतिपदि संवत्सरमूलदिवसे मूलनक्षत्रं भवति / ततः प्राधान्यादत्र नक्षत्रशब्देन मूलं भणन्ति / तेन मूलगुणविराधनां प्राणातिपाताद्यतिचाररूपां ज्ञापयन्ति / अपरे त्वार्द्रादिषु नक्षत्रेषु सर्वेषु वृष्टेऽपि मेघे हस्तवृष्टिं विना न धान्यानि विशिष्टां पुष्टिं बध्नन्ति / ततो हस्तस्य प्राधान्यमिच्छन्तोऽत्र नक्षत्रध्वनिना हस्तं निर्दिशन्ति / ततो हस्तेनाऽदत्तमात्रं हस्तकर्म वा कृतमिति तृतीयचतुर्थव्रतातिचारसूचा / एके तु नक्षत्राणि लोके सप्तविंशति र्व्यवह्रियन्त इति / नक्षत्रशब्देनानगारगुणानां मूलोत्तरगुणरूपाणां सप्तविंशतिसङ्ख्यानां विराधनामाहुः / तथा चाऽऽवश्यके प्रतिक्रमणाध्ययने-' सत्तावीसाए अणगारगुणेहिं 'ति / __'वयछक्कमिदिआणं च निग्गहो भावकरणसच्चं च / खमया विरागया वि अ मणमाईणं निरोहो अ॥ कोयाणं छक्क जोगंमि जुत्तया वेअणाहिआसणया / तह मारणंतिअहिआसणा य एए णगारगुणा / गाथे स्पष्टार्थे / 'नवरं-'भावकरणसच्चं च 'त्ति / भावसत्यं शुद्धान्तरात्मतारूपं पारमार्थिकाऽवितथं, करणेन सत्यं करणसत्यं-यथोक्तप्रतिलेखनादिक्रियाकरणम् / इह व्रतषट्कं कायषट्कं च 12 मूलगुणाः , शेषाः 15 उत्तरगुणाः / तत्रोत्तरगुणविराधनामाश्रित्य शुक्ले मासे तपः कुरुत / चातुर्मासिकं तपः कुरुत, पाण्मासिकं तपः कुरुत / 'शुक्ले' इति / अयमभिप्रायः-उत्तरगुणविराधनायां शुक्लशब्दवाच्यान्युद्घातिमानि मासिक-चातुर्मासिक-पाण्मासिकानि प्रायश्चित्तानि कार्याणि / मूलगुणातिचारे तु कृष्णशब्दवाच्यान्यनुद्घातिमानि तान्येवेति / तथा च _ 'एवं तावुग्घाए अणुघाए ताणि चेव कण्हमि / मासचउमासछम्मासिआणि छेअं अओ वुच्छं। तत्रोद्घातो-भागपातस्तेन निवृत्तान्युद्घातिमानि भावादिम' इतीमः-लघूनीत्यर्थः / तद्विपरीता न्यनुद्घातिमानि-गुरूणीत्यर्थः। उपलक्षणं चैतन्मासिक-चातुर्मासिक-षोण्मासिकानि / अन्यथा पञ्चकादीनि पाण्मासिकान्तानि प्रायश्चित्तानि भवन्ति / तानि च सर्वाण्यपि लघूनि गुरूणि च / तत्स्वरूपं चाग्रे वक्ष्यति -- अद्धेण छिण्णसेस 'मित्यादिना / इह तीर्थे उत्कृष्टतोऽपि षण्मासान्तमेवातिचारशुद्धयर्थ तपो भवति / अत एवोक्तं-'मासचउमासछम्मासिआणि छेअं अओ वुच्छं' यश्चैतावता तपसा न शुद्धचत्यतस्तच्छुद्धयर्थं छेदादीन् वक्ष्ये / अन्यत्राऽप्युक्तम् 'उस्सग्गेण उ सुज्झइ अइयारो कोइ कोइ उ तवेणं / तवसा असुज्झमाणे छेअविसेसावि सोहंति' / / छेदादयोऽप्याऽऽज्ञाव्यवहारत्वात् गूढपदैरेवोच्यन्ते / . 'छिदित्तु तयं भाणं गच्छंतु वयस्स साहूणो मूलं / अव्वावडा व गच्छे अब्बीआ वावि विहरंतु' / तद्भाजनं पूर्वव्रतपर्यायरूपं छिन्दन्तु-तन्मध्यात् कियन्तमपि पर्यायमपनयन्तु-उत्सारयन्त्वित्यर्थः / स च छेदस्तपोभूमिमतिक्रान्तस्य पञ्चदशकादिरूपतया तत्तदतिचाराऽपेक्षया यावत् पर्यायः प्राप्यते तावत् क्रियते / यदाह ____ 'उक्कोसं तवभूमि समईओ सावसेसचरणो अ / छेअं पणगाई पावइ जा धरइ परिआओ'। ते चैवं छेदविभागा: 'छन्भागंगुल पणगे दसराए तिभाग अद्ध पन्नरसे / वीसाइ तिभागूणं छब्भागूणं तु पणवीसा / /

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182