Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ 59 चतुर्थमहावतातिचार प्रायश्चित्तम् -- पत्तं वा उच्छेदे गिहि-खुड्डगमादिगं तु वुग्गाहे / निद्धम्मखुड्डगमखुड्डगं व जयउ त्ति एमेव' / सूत्रार्थोभयव्युच्छेदे गृहिणां क्षुल्लकं-बालम् , आदिशब्दोदबालमपि साधर्मिकोऽन्यधार्मिकोणां वा पात्रं सूत्रार्थतदुभयग्रहणधारणक्षम व्युद्ग्राहयेत् - विपरीतं ग्राहयेत् सूत्रार्थोभयव्युच्छेदे शिशुमितरं वा योग्य सन्तमपहरतीत्यर्थः / निर्द्धर्माणः पार्श्वस्थाः तेषां सत्कं क्षुल्लकमक्षुल्लकं वा / एवमेव-यथा गृहस्थानां तथा व्युग्राहयेत् संयमयोगेषु यततामयमित्यालम्बनेन / पार्श्वस्थानां शिष्यं संयमार्थमपहरतीत्यर्थः / ननु यत् सूत्रार्थोभयव्युच्छेदे गृहस्थादिक्षुल्लकाद्यपहरणं तद्युक्तं यत् पुनः पार्श्वस्थशिष्यापहरणं तत्कथं न स्तैन्यम् ? उच्यते-'तेसु उ तमणुण्णायं अणणुण्णायगहणे विसुद्धो उ / किं तेण्णं असंजमपंकेखुत्तं तु कड्ढते ' / तेषु पावस्थेषु तं शिष्यमनुज्ञातं पूर्व गृह्णन्ति / अननुज्ञातग्रहणेऽपि विविधं-सर्वप्रकारेण शुद्धो-विशुद्धः / अत्रोत्तरार्द्धन हेतुमाह-अपि च'सुहसीलतेणगहिए भवपल्लिं तेण जगडिअमणाहे / जो कुणइ कूविअत्त सो वन्नं कुणइ तित्थस्स ' / एवमनया दिशा अदत्तविषया कल्पिकासेवा प्रकल्पादवसेया / इत्यमिहितं तृतीयमहाव्रतातिचारप्रायश्चित्तम् / अथ चतुर्थमहाव्रतातिचारप्रायश्चित्तमोहपडिबद्भसिज्ज दव्वे भावे दव्यंमि पिठवंसाई / पासवणठाणरूवे सद्दे भावे लहुग दव्वे // 83 // .. व्याख्या-इह साधूनां दुरपोहमोहव्यपोहपरायणानामपि कदाचित्कर्मवशेन मोहोदयो भवेत् / स च सनिमित्तोऽनिमित्तो वा स्यात् / तत्र गीतादिविषयशब्दश्रवणेन स्त्रीरूपालिङ्गनादिदर्शनेन पूर्वक्रीडितस्मरणेन च यो मोहोदयो भवति स सनिमित्तः / यस्तु केवलकर्मोदयेनाऽऽहारेण शरीरोपचयेन वा स्यात् सोऽनिमित्तो बाह्यनिमित्तानपेक्षत्वात् / विषयशब्दश्रवणादीनि च मोहोदयनिमित्तानि प्रतिबद्धशय्यादौ भवेयुः / अतस्तत्र न स्थातव्यम् / तत्रावस्थाने च प्रायश्चित्तं तच्चात्र गाथाद्वयेन प्रतिबद्धशय्यास्वरूपप्ररूपणपूर्वक प्रतिपाद्यते, यथा-प्रतिबद्धा-युक्ता संश्लिष्टेन्यर्थः / शय्या-वसतिः / सा च प्रतिबद्धा द्विधा-द्रव्ये भावे च / तत्र द्रव्ये पृष्ठिवंशादि / पृष्ठिवंशो-वलधरणं येन काष्ठेन तिर्यक संस्थापितेन वला ध्रियन्ते तेन प्रतिबद्धा / एकशिखरा लोकगृहैः सहेत्यर्थः। आदिशब्दादपरेण वा केनापि देशेन प्रतिबद्धा / एषा द्रव्यप्रतिबद्धा वसतिरवगन्तव्या / भावप्रतिबद्धा पुनश्चतुर्द्धा-प्रस्रवणप्रतिबद्धा, स्थानप्रतिबद्धा, रूपप्रतिबद्धा, शब्दप्रतिबद्धा च / तत्र प्रस्रवण, प्रस्रवन्ति कायिकां कुर्वन्त्यस्मिन्नित्यधिकरणाऽनटि प्रस्रवणं-कायिकाभूमिस्तेन प्रतिबद्धा / स्थानं यत्र स्त्रियस्तिष्ठन्ति तेन प्रतिबद्धा / यत्र वसतिस्थितैः स्त्रीरूपं दृश्यते सा रूपप्रतिबद्धा / यत्र वसतिस्थितैः स्त्रोणां भाषाभूषणरहस्यशब्दाः श्रूयन्ते सा शब्दप्रतिबद्धा / अत्र द्रव्यभावपदाभ्यां चतुर्भङ्गी स्यात् / तद्यथा-द्रव्यतः प्रतिबद्धा भावतोऽपि प्रतिबद्धा / द्रव्यतः प्रतिबद्धा न भावतः / भावतः प्रतिबद्धा न द्रव्यतः / न द्रव्यतो न भावतः / अत्र चतुर्थभङ्गः शुद्धो द्विधाऽप्यप्रतिबद्धायां वसताववस्थाने दोषाभावात् / दव्वेत्ति / द्रव्यतः प्रतिबद्धा न भावत इत्येवंविधद्वितीयभङ्गे या वसतिः स्यात् तत्रावस्थाने चतुर्लघुकाः प्रायश्चित्तम् / आज्ञानवस्थामिथ त्व विराधनाश्च भवन्ति / इमे चाऽन्ये दोषाः साधूनां संशब्देन विबुद्धा असंयताः पानीयहारिका-पशुपाल

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182