Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 156
________________ नवविधतपोदानश्रुतव्यवहारः 143 ___व्याख्या-अत्रैष नवविधतपोदानलक्षणश्रुतव्यवहारविभिनवभिः सप्तविंशतिमिरेकाशीतिभिश्च भेदर्भवति / तत्र संक्षेपतः तावदयं त्रिभेदः पक्षत्रयभेात् / आपत्तिभेदतः पुनर्नवभेदः / दानतपोभेदतस्तु सप्तविंशतिभेदः / कालत्रिकविशेषेण पुनरेकाशीतिभेदश्च भवति / एतेषां च सर्वेषामपि भेदानां स्वरूपं ग्रन्थकारः स्वयमेव पुरस्ताद् व्यक्तीकरिष्यति / एवंविधभेदभिन्नश्च नवविधतपोदानलक्षणश्रुतव्यवहारः तिर्यगूज़ च दशरेखे यन्त्र स्थापितः सुखोवसेयो भवतीति सकलभेदप्रतिपादनानन्तरं तत्स्थापनापि दर्शयिष्यते / तत्र पूर्व नवविधतपोदानश्रुतव्यवहारमेव दर्शयन्नाह - उपवासछट्टअट्ठम जहन्न छट्ठट्ठमादसम मज्झा। अट्ठमदसमदुवालस जिट्ट तिकाले तवो नवहा // 257 / / व्याख्या- उपवासषष्ठाष्टमानि जघन्यानि / षष्ठाष्टमदशमानि मध्यमानि / अष्टमदशमद्वादशानि उत्कृष्टानि / कालत्रये ग्रीष्मशिशिरवर्षालक्षणे क्रमेण तपांसि नवधा देयतया अवगन्तव्यानि / एष नवविधतपोदानश्रुत व्यवहारः प्रोच्यते / अथवा एष नवविधतपोदानश्रुतव्यवहारःनिविअपुरिमासगंबिल इगविति चउपंचखमण नवह तवो / सुअववहारुपएसा ओहेण विभागजो चेव / व्याख्या-निर्विकृतिकं. 1 पुरिमार्द्धम् 2 एकासनं 3 आचामाम्लम् 4 एकक्षपणं चतुर्थं 5 द्वे क्षपणे षष्ठं 6 त्रीणि क्षपणानि अष्टमं 7 चतुःक्षपणानि दशमं 8 पञ्च क्षपणानि द्वादशं 9 श्रुतव्यवहारोपदेशादेवं तपा नवधा ओवतो विभागतश्च प्रीष्मशिशिरवर्षासु दीयत इति नवधा तपोदानश्रुतव्यवहारः / / अथ -- यथोदेशं निर्देश' इति न्यायोत् पूर्व पक्षत्रयं स्पष्टयन्नाहगुरु लहु लहुस ति पक्खा पिहो तिहाऽतिगुरु गुरुतरो गुरुओ। लहुतमलहुतरलहुओ लहुसतमो लहुसतर लहुसो // 259 // व्याख्या- एष नवविधतपोव्यवहारः संक्षेपतनिधा-उत्कृष्टो मध्यमो जघन्यश्च / तत्र गुरुतम गुरुतर-गुरुरूपभेदत्रयात्मको गुरुपक्ष उत्कृष्टः / लघुतम-लघुतर-लघुरूपभेदत्रयात्मको लघुपक्षो मध्यमः / लघुस्वतम-लघुस्वतर-लघुस्वाख्यत्रिभेदो लघुस्वपक्षो जघन्य इति / यदाह नवविहववहारे सो संखेवेणं तिहा मुणेअव्वो। उक्कोसो मज्झिमगो जहन्नगो चेव तिविहो सो // उक्कोसो गुरुपक्खो लहुपक्खो मज्झिमो मुणेअव्वो / लहुसपक्खो जहन्नो तिविगप्पो एस नायव्वो // इदानी प्रकृतगाथाक्षरार्थः-गुरु 1 लघु 2 लघुस्वः 3 लघुस्वशब्दश्च लघुकार्थः / स्वशब्दस्याल्पार्थक रत्ययार्थत्वादित्येते त्रयः पक्षाः पृथक् प्रत्येकं त्रिधा भवन्ति / त्रैविध्यं च दर्शितमेव / / अथ नवविधापत्तितपोव्यवहारं दर्शयतिगुरुलहुअ छपणमासा चउतिगमासा दुमासगुरुमासो। लहुमासमिन्नवीसं पनरसदसपण तिपक्खकमा //

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182