Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 171
________________ 158 यति-जीतकल्पे गुणभङ्गकारिष्वित्यर्थः / वान्तदर्शनचारित्रे / इह दर्शने वान्ते नियमाच्चारित्रं वान्तमेव / चारित्रे पुनन्तेि दर्शने भजना-वान्तचारित्रोऽपि कोऽपि दर्शनं वमति, कोऽपि न वमति / ततो वान्तदर्शने वान्तचारित्र च / त्यक्तानि कृत्यानि दशविधचक्रवालसामाचारीरूपाणि सर्वाणि येन स त्यक्तकृत्यस्तस्मिन् / शैक्षे च नवदीक्षितेऽनुपस्थापिते एतेषु सर्वेषु मूलम् / तथा अत्यन्तावसन्नेषु च / अवसन्ना एव प्रवाजिताः सविग्नर्वा प्रवाजितमात्रा एवावसन्नतया विहृतास्तेऽत्यन्तावसन्नास्तेषु / परलिङ्गाद्विके / परलिङ्ग-गृहस्थलिङ्ग कच्छाबन्धनादिगृहस्थवेषरूपम् अन्यतीर्थिकलिङ्गं च तापसादिवेषरूपम् / तयोराकुट्टिकया दर्पण वा स्वयं करणे, मलकर्मणि च औषधादिना स्त्रीणां गर्भाधानशाटनकरणरूपे / भिक्षौ च विहिततपसि / विहितं-दत्तं गुरु भिस्तपोरूपप्रायश्चित्तं यस्य तस्मिन् / एवमङ्गीकृततपःप्रायश्चित्ते पुनरपि छेदमूले अतिक्रम्य तथाविधाऽतिचारसेवनयाऽनवस्थाप्यं पाराश्चिक वापि प्राप्ते मूलं / कोऽर्थः 1 मिक्षोनवमदशमप्रायश्चित्तोपत्तावपि मूलमेव प्रायश्चित्तं भवति / आचार्योपाध्याययोस्तु पाराश्चिकापत्तावप्यऽनवस्थोप्यमेव // यदुक्तं भाष्ये - इत्य य जह नवदसमे आवन्नस्सा वि अ भिक्खुणो मूलं / दिज्जइ तहोमिसेगे परं पयं होइ नवमं तु / अभिषेकशब्देनाचार्योपाध्यायौ उच्येते, परमत्राचार्यस्याकृतकरणस्योपाध्यायस्य तु कृतकरणस्येतत् नेयम / कृतकरणस्याचार्यस्यान्त्यप्रायश्चित्तप्रतिपत्तिभणनात् / तथा छेदेन-पुनःपुनरतीचारमाश्रित्य क्रियमाणेन व्रतपर्याये निरवशेषेऽपि छिन्ने इति शेषः / मूलम् अनवस्थाप्यपाराश्चिकयोरनुष्ठितयोरनन्तरं पनस्तथाविधाऽतिचारसेवनया तदापत्तावपि मूलमेव दीयते / मूलापत्तिषु-उपचारान् मूलापत्तिकारणे. ध्वतिचारेषु बहुशश्च प्रसजतः-पुनः पुनः प्रसक्तिं कुर्वाणस्य मूलम् / एतेषु यथोक्तस्थानेषु सर्वेषु मूलं प्रायश्चित्तं भणितं // पुनरप्येकया गाथया मूलमेवाहतबईअमसद्दहए तवबलिए चेव होइ परिआएं / दुब्बलअप्परिणामे अथिर अबहुस्सुए मूलं // 281 // ___ व्याख्या-यो मासादिकं षण्मासपर्यन्तं तपोऽतीतो-व्युत्क्रान्तः / किमुक्तं भवति-मासादिना षण्मासपर्यन्तेन तपसा यो न शुद्धथति, तपोग्रहणमुपलक्षणं देशच्छेदमपि योऽतीतो देशच्छेदेनापि यो न शद्धयतीति भावः / तस्य मूलं दीयते इति सर्वत्र सम्बध्यते / तथा 'असद्दहए' इति / अभद्दधानो नाम मिथ्यादृष्टिः / ततो योऽश्रद्दधान एव सन् व्रतेषु स्थापितः पश्चात् सम्यक्त्वं प्रतिपन्नः सन् सम्यगावृत्तो भवति तस्य मूलं देयम् / यथा गोविन्दवाचकस्य दत्तमिति / 'तवबलिए'त्ति / तपसा बलिको-बलिष्ठः तपोबलिकः / किमुक्तं भवति-महतापि तपसा यो न क्लाम्यति, यत्र तत्र स्वल्पे प्रयोजने तपः करिष्यामीति विचिन्त्य प्रतिसेवते / यद्वा पाण्मासिके तपसि दत्ते वदति-समर्थोऽहमन्यदपि तपः कर्तु तदपि मे देहीति तस्मिन् तपोबलिके मूलम् / 'पर्याये' इति यस्य च्छेदेन छिद्यमानः पर्यायो न पूर्यते स्तोकत्वात् / अथवा छेदपर्यायं यो न सम्यक श्रद्दधाति / यथा कोऽयमर्द्धजरतीयो न्यायः कियत पर्यायस्य छिद्यते कियन्नेति / यदि छिद्यते तर्हि मूलत एव छिद्यतां यदि वा न किमपीति / यदि वा वक्ति-रत्नाधिकोऽहं बहुकेऽपि परिछिन्ने पर्याये अस्ति मे दीर्घः पर्याय इति न किमपि छेत्स्यति तस्य सर्वस्यापि पर्याये हीनस्य पर्याये श्रद्धान रहितम्य पर्याये गर्वितस्य मूलम् / तथा यो बहुप्रायश्चित्तमापन्नोऽथ च धृति-संहननाभ्यां दुबलत्वात्तपः कतुमसमर्थस्तस्मिन् दुबले मूलम् / तथा अपरिणामत्वात् ब्रूते-यदेतत्तपः पाण्मासिकं युष्मामिर्मे दत्तमेतेन

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182