Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ योगविधिविषयातिचारप्रायश्चित्तम - अथ साधूनां योगविधिविषयाति वारप्रायश्चित्तं गायत्रयेणोपदर्शयतिसमणुन्नसमुद्देसे दिणसमकाले अ कालि अस्सुद्धे / वमणे निसि वोसरणे वितहमणुट्ठाणकरणे अ॥ अइरित्तुसंघट्टीअ-भत्तपरिद्ववणि थंडिलाणं च / तह कालमंडलाणं च अपेहेणे कलहविकहासु // 301 // जोगेसु दिवसवुड्ढीति पंचमाईहिं सेसखलिएहिं / तिहिं विगइमउलिएहिं इअरेहिं पंच सत्तहि वा / / व्याख्या-समनुज्ञासमुद्देशयोः-अङ्गश्रुतस्कन्धानामनुज्ञासमुद्देशयोदिवसे काले अशुद्ध सति / योगप्रवेशानन्तरं दिनसमेषु दिनप्रमाणेषु कालेष्वसत्सु / वमने-वान्तौ / निशि व्युत्सजने-अकालसञ्ज्ञायाम् / वितथमनुष्ठानकरणे च-अन्यथा सतोऽनुष्ठानस्यान्यथाकरणे च / 'जोगेसु दिवसवुड्डी' इत्यप्रेतनगाथाऽवयवसम्बन्धादेतेषु सर्वेष्वपि पदेषु प्रत्येक योगमध्ये दिवसवृद्धिः स्यात् / तथाऽतिरिक्तमधिकीभूतं उत्संघट्टितं-संघट्टकात् स्फिटितम् एवंविधं यद्भक्तं तस्य परिष्ठापने / स्थण्डिलानाम्-उच्चारप्रस्रवणभूमिमात्रकादीनां कालमण्डलभूमीनां च अप्रतिलेखने / कलहे-रोषावेशविसंस्थुलभाषणादिरूपे साध्वादिभिः सह कृते / विकथासु विरुद्धासु स्यादिसम्बद्धासु कथासु च कृतासु प्रत्येकं योगमध्ये दिनवृद्धिर्भवति / / शेषस्खलितैः-शेषैरुक्तेभ्यो व्यतिरिक्तः स्खलितैरविधिरूपपदैरुत्कृष्टमध्यमजघन्यलक्षणस्त्रिभिः पञ्चभिरादिशब्दात् सप्तभिर्वा दिवसवृद्धिर्भवति / त्रिभिर्विकृतिमहुलिकनिरन्तरोगमध्ये दिवसवृद्धिर्भवति / इतरैः पुनर्महुलिकैः पञ्चभिः सप्तभिर्वा / / अत्र श्रीचन्द्रसूरिसमुद्धत 1450 ग्रन्थमितसामाचार्यन्तरगतप्रायश्चित्तप्रकारान्तरदर्शनायाहउस्संघट्टिअकम्मिअभोगे लेवाडसंनिही वमणे / थंडिलअपेह संखड कोहाइ महव्ययइआरे // 303 // परपरिवाए पेसुन्न आल पुत्थाइथुक्कभूपडणे / श्यहरचोले उग्गहफिडिए उवविद्वपडिकमणे // 304 // पडिकमणकालभोअण-उद्देसगमाइभूमिओहीणं / गुरुग अपेहे एगेगं आवस्सिनिसीहिआभंगे // 305 // ____ व्याख्या-योगमध्ये उत्संघट्टितभक्तादिपरिभोगे / आधाकर्मिकभक्तादिपरिभोगे / लेपकृद् द्रव्यसन्निधौ। वमने / स्थण्डिलानामप्रतिलेखने / सङ्खडे-कलहे। क्रोधादौ तथाविधक्रोधे, आदिशब्दात्तथाविधमानमायालोभेषु / महाव्रतातिचारे-पञ्चमहाव्रतरात्रिभोजनविरमणरूपमूलगुणातिचारे। परपरिवादे-परेषां दूषणभाषणेऽपि / पैशुन्ये-पिशुनत्वे प्रच्छन्नं परदोषप्रकटने / आलमभ्याख्यानं तत्प्रदाने / 'पुत्थाइथुक्कभूपडणे' इति पुस्तकादेः पुस्तकपट्टिकादेर्ज्ञानोपकरणस्य थुक्केन-निष्ठीवनेन भरणे भूपतने-प्रमादादिना भूमौ पातने, उपलक्षणत्वात् कक्षाप्रक्षेपे दुर्गन्धहस्तेन ग्रहणे च / रजोहरणे चोलपट्टे चावग्रहात स्फिटिते-ऽपगते / उपविष्टप्रतिक्रमणे -उपविष्टेन प्रतिक्रमणकरणे / प्रतिक्रमणकालभोजनोद्देशकादिभूभीनामप्रमार्जने उपधेरप्रतिलेखने च गुरुकाः / एतेषु सर्वेष्वपि गाथात्रयोपात्तेष्वपराधपदेषु चत्वारो गुरुकाः प्रायश्चित्तं योगमध्येऽपि भवतीत्यर्थः / तथा आवश्यकी-नैषेधिकोभङ्ग पञ्चकं-पञ्चकाख्यं प्रायश्चित्तं भवति / / . अथ शास्त्रसमाप्त्यर्थमुपसंहारगाथामाह -

Page Navigation
1 ... 178 179 180 181 182