Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ यति जीतकल्पे विकल इत्येतद्विचार्य 'दिज्ज हदुस्स न उ गिलाणस्स' तुशब्दस्य विशेषणार्थत्वात् / हृष्टस्य जीतोक्तादधिकमपि दद्यात् , ग्लानस्य तु न दद्यात् जीतोक्तादूनं वा दद्यात् / यावन्मानं वा विषहते-कर्तुं शक्नोति तत् प्रायश्चित्तं तावन्मानं दद्यात् / कालं वा सहेत-यावता प्रगुणो भवति तावत्प्रतीक्षेत, रोगनिवृत्तौ समर्थस्य दद्यादित्यर्थः / उक्तो भावविषयो दानविधिः // अथ अत्र सूत्रेऽनुक्तमपि पूर्वजीतकल्पगतं पुरुषद्वारं सप्रपञ्चमत्रापि लिख्यतेपुरिसा गीआगीआ सहासहा तह सढासढा केई / परिणामापरिणामा-अइपरिणामाइ वत्थूणं / / इह आलोचनाग्राहिणः पुरुषाः किं स्वरूपा ? इति प्रथममेवाचार्यैर्विचार्यास्तःपेक्षया प्रायश्चित्तं दातव्यम् / ते च बहुप्रकाराः। तद्यथा-गीतार्था-अधिगताचारप्रकल्पादिनिशीथान्तश्रुताः / तदितरे त्वगीता-अगीतार्थाः / सहाः-सर्वप्रकारैः समर्थाः / असहाः त्वसमर्थाः। तथा केचित् शठो-मायाविनः / अशठाः-सरलात्मानः / परिणामकादयस्त्रयोऽपि पूर्वमदूरे ‘छेआइमसद्दहओ' इति गाथाया विवरणे व्याख्यातास्ततो नात्र पुनः प्रतन्यन्त इति / / तह धिइसंघयणोभयसंपन्ना तदुभएण हीणा य / आयपरोभयनोभयतरगा तह अन्नतरगा य / / तथा धृतिसंहननोभयसम्पन्नास्तदुभयेन हीनाश्च / इह भङ्गचतुष्टयं सम्भवति / तत्र धृत्या सम्पन्ना इत्येकः / संहननेन सम्पन्ना इति द्वितीयः / उभयेन धृतिसंहननाख्येन सम्पन्ना इति तृतीयः / तदुभयेन हीनाश्चेति चतुर्थः / तथा आत्मपरोभयानुभयतरका इति / अत्रापि चतुभंङ्गी। आत्मानुप्राहकं तपः, परोपष्टम्भकारकं वैयावृत्त्यं तयोर्द्वयोरपि समर्थाः परं ये तप एव कुर्वन्ति, न वैयावृत्त्यं ते आत्मतरकाः , स्वार्थेऽत्र कः, न परतरका इति प्रथमः / ये तु वैयावृत्त्यमेव कुर्वन्ति न तपस्ते परतरका इति द्वितीयः / ये तूभयमपि कुर्वन्ति ते उभयतरका इति तृतीयः / ये पुनरुभयमपि न कुर्वन्ति ते नोभयतरका इति चतुर्थः / तथा अन्नतरगा त्ति / अन्यतरकाः ये तपोवैयावृत्त्ययोरन्यतरदेकमेव कत्तुं शक्नुवन्ति नोभयकरणक्षमा इत्यर्थः // कप्पठिआदओ वि अ चउरो जे सेअरा समक्खाया / साविक्खेअरभेआदओ अ जे ताण पुरिसाण // कल्पः-सततासेवनीयः समाचारः। स चायम् आचेलुकुद्देसिअ सिज्जायररायपिंड किइकम्मे / वयजिट्ठ पडिक्कमणे मासं पज्जोसवणकप्पे / न विद्यते चेलं-वस्त्रं यस्यासावचेलकस्तस्य भाव आचेलक्यम् / सचेलत्वे चायमचेलकत्वव्यपदेशः / तथा चान्यत्रापि दृश्यते जह जलमवगाहिंतो बहुचेलो वि सिरवेढिअकडिल्लो / भन्नइ नरो अचेलो तह मुणओ संतचेला वि।। तह थोव-जुण्ण-कुच्छिअचेलेहिं वि भन्नए अचेलुत्ति / जह तूर सालिअ! लहुं दे पुत्तिं नगिआ मु त्ति / / उद्देशेन-साधुसङ्कल्पेन निवृत्तमौदेशिकम् आधाकर्म / शय्यया-वसत्या तरति भवाम्भोधिमिति शय्यातरः, राजा-नृपस्तयोः पिण्डो भक्तादिरूपः शय्यातरपिण्डो राजपिण्डश्च / इहौदेशिकादीनां

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182