Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 149
________________ 136 यति-जीतकल्पे सुप्तः तदा तस्य मासलघु प्रायश्चित्तम् उपधिश्वोपहन्यते / ततः परं द्वितीयतृतीयादिदिनेष्वेकाकिनो वसतश्चतुर्लघु / यच्च सूत्रार्थपौरुष्यऽकरणे सूत्रार्थनाशे दर्शनचरणविराधने च प्रायश्चित्तं तत् सर्वमापद्यते / यश्चावधावनानुप्रेक्षी आकारेङ्गितादिभिरवगम्यते, तस्य रतिवाक्यचूलाभणितान्यऽष्टादशस्थानानि हयरश्मिगजाकुशपोतपताकाभूतानि यदि पुराप्यवगतानि तदा स्मारयन्ति वृषभसाधवः / अथ न तान्यवगतानि तस्य तदा सूत्रार्थतः कथयन्ति / / ___ अथ छेदादिशोध्यमतीचारं कृतवतामपि केषाश्चित्तप एव इति तान् ज्ञापयितुमाह छेआइमसद्दहओ मिउणो परिआयगव्विअस्स वि अ। छेआईए वि तवो जीएण गणाहिवइणो अ॥ ___ व्याख्या-यः छेदं न श्रद्दधाति भणति च व्रतपर्याये दिनपञ्चकादौ छिन्ने किं मदीयं छिन्नं ? सम्पूर्णकरचरणकर्णनासिकाद्यवयव एव तावदहमस्मि, तस्य छे दाद्यश्रद्धानपरस्य / ' मिउणो 'त्ति / यः छिद्यमानो व्रतपर्यायेन सन्तप्यते / यथा कष्टं मम पर्यायः छिन्न इति / यद्वा अन्येषां लघूनामध्यहमति लघीयान् जोत इति तस्य मृदोः / यश्च पर्यायगर्वितो दोघंपर्यायत्वात् छिन्नेऽपि पर्यायेऽन्येभ्योऽभ्यधिक पर्याय एव नाऽवमपर्यायः , नवा पर्यायच्छेदाद् बिभेति तस्य पर्यायगर्वितस्य | अपिचेति समुच्चये / एतेषामुद्दिष्टानां छेदमापन्नानामपि, आदिशब्दान् मूलानवस्थाप्यपाराश्चिकानप्यापन्नानाम् / तथा गणाधि पतेः-आचार्यस्य, चशब्दान् कुलगणसङ्घाधिपानां च जीतेन-जीतव्यवहारमतेन तप एव दीयते / अत्राह दीयतां नाम छेदाद्यश्रद्धालुप्रभृतीनां छेदापत्तावपि तपः, आचार्यादीनां तु कथम् ? इति / अत्रोच्यतेअनेकविधाः शिष्याः परिणामकाः अपरिणोमकाः अतिपरिणामकाः शैक्षाः उच्छङ्खलाश्चेति / तत्रोत्सर्गे उत्सर्गमपवादे चापवादं यथा भणितं ये श्रद्दधत्याचरन्ति च ते परिणामकाः। ये पुनरुत्सर्गमेव श्रद्दयत्याचरन्ति च, अपवादं तु न श्रद्दधति नाचरन्ति वा ते अपरिणामकाः / ये चापवादमेवाचरन्ति नोत्सर्ग ते अतिपरिणामकाः / शैक्षा-नवदीक्षिताः / उच्छृङ्खला-उल्लुण्ठाः / एषामपरिणामकादीनामिमे मा निन्द: नीया लाघवभाजो भूवन्नित्याचार्यादीनामपि तप एव दीयते न छेदादय इति / उक्तं वीर्याचारातिचारप्रायश्चित्तं तदुक्तौ च समर्थितं पञ्चविधाचारातिचारप्रायश्चितम् / अथ विशेषाभिधानाय प्रस्तावनामाहएअं पुण सव्वं चिअ पायं सामन्नओ विणिद्दिट्ट / दाणं विभागओ पुण दव्वाइविसेसिअं नेअं // 245 / / व्याख्या- एतत् पुनरालोचनाएदि प्रायश्चित्तदानं सर्वमेव प्रायो-बाहुल्येन सामान्यतोद्रव्याद्यविभागतो विनिर्दिष्टम् / विभागतः पुनद्रव्यादीनि द्रव्य-क्षेत्र-काल-भाव-पुरुष-प्रतिसेवनाद्यपैक्षाविशेषितं हीनमधिक वा यथोक्तमेव वा जोतदानं दातव्यमिति ज्ञेयम् / उक्तं च दव्वं खित्तं कालं भावं पुरिसपडिसेवणाओ अ। नाउ मिअं चिय दिज्जा तंमत्तं हीणमहिलं वा / / 'मिअ चित्ति / मितमेव द्रव्यक्षेत्रादिप्रमाणेनैव / कोऽर्थः ? द्रव्यादिषु हीनेषु हीनम्, अधिकेष्वधिकम् , अहीनोत्कृष्टेषु तन्मात्रं जीतोक्तसममेव दद्यात् / / तत्र द्रव्यामिधित्सयाहआहाराई दव्वं बलिअं सुलहं च नाउ अहिअंपि। दिजाहि दुब्बलं दुल्लहं च नाऊण हीणपि // 246 //

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182