Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 91
________________ यति-जीतकल्पे बालस्य मार्जारादिभ्यो विनाशसम्भवात् / निक्षिप्यमाणस्योत्क्षिप्यमाणस्य चातिसुकुमारत्वेन परितापनासम्भवात् 15 / अग्रेतनगाथास्थितो याशब्दोऽत्र प्रत्येकमभिसम्बध्यते / ततश्च या काचिन्महिला खण्डयति-उदूखलक्षिप्तानि शाल्यादिबीजानि मुसलघातः श्लक्ष्णीकरोतीत्यर्थः। तया दीयमाना भिक्षा न ग्राह्या / बोजसङ्घट्टनोद्यारम्भसम्भवात् 56 / तथा पिनष्टि-शिलायां तिलामलककुस्तुम्बुरुलवणजीरकादि मृद्नातीति आवः / अनयापि दीयमानं न कल्पते, तिलादिसङ्घट्टनसद्भावात 17 / तथा भृजति-चनकयवगोधूमादीन् अग्निप्रतप्तकडिल्लकादौ स्फोटयतीत्यर्थः / तया दीयमानं न कल्पते, कडिल्लकादिप्रक्षिप्तस्य तस्य चनकादेर्दाहसम्भवात् 18 / तथा जेमति-भुङ्क्तेऽभ्यवहरतीत्यर्थः / भुञ्जाना हि आचमनं विधाय यदि साधुभ्यो दद्यात् तदाऽप्कायविराधना / अथैतद्दोषभयात्तदकृत्वैव वितरेत् तदोच्छिष्टमप्येते न त्यजन्तीत्यादिजनाऽपवादः स्यात् / तत्र च महान् दोषः / यदाह ___'छक्कायदयावंतो वि संजओ दुल्हं कुणइ बोहिं / आहारे निहारे दुगुंछिए पिंडगहणे वि' / इत्यतो न कल्पते 19 / तथा विरोलयति-करमन्थानादिना दध्यादिकं मध्नाति / सा हि संसक्तदध्यादिलिप्तकरा भिक्षां ददती सत्त्ववधं विदध्यादिति न गृह्यते 20 / तथा दलति-सजीवं-सचित्तं गोधूमादिधान्यं घरट्रेन पिनष्टि / इयं हि भिक्षादानायोत्तिष्ठन्ती बोजानि सङ्घट्टयति, दत्त्वा च करौ प्रक्षालयतीति न गृह्यते 21 / तथा या काचिन्नारी साधुदानायोद्यता सती मूलस्थालीतः समाकृष्य स्थगनिकादौ बलिमुपहारमग्रकूरमित्यर्थः स्थापयति तया दीयमाना भिक्षा न कल्पते, प्रवर्तनादिदोषसम्भवात् 22 / तथा उद्वर्त्तयति-साधुदानबुद्ध था परावर्तयति पिठरादि स्थाल्यादि नमयतीत्यर्थः / अत्र च कीटिकादिसत्त्वोपघातः स्यात् 23 / तथा त्रिधा-ऊर्ध्वाऽधस्तिर्यग्लक्षणैत्रिभिः प्रकारैः सप्रत्यपायकोष्ठकण्टकगवादिभ्यः सकाशात् सम्भाव्यमानाभिघाताद्यना या काचिद् वनिता स्यात् / ‘तहा सपञ्चवाया जा' इति पाठे तु, तथा सप्रत्यपाया या दात्री कूलवालकमुनिव्रतत्याजयित्री मागधिकावेश्येव शाकिन्यादि / तया दीयमानं न कल्पते 24 / तथा साधारणं-बह्वायत्तं तद्ददातीति योगः। तत्र साधारणानिसृष्टवदोषी वोच्याः 25 / तथा चोरितकं-चौरिकया गृहीतं साधुभ्यो ददाति / तत्र च दोषाः प्रतीता एव 26 / तथा पाराक्यं-परसत्कं परकीयमिदमित्युक्त्वा ददाति / अथवा परार्थ-परनिमित्तं कार्पटिकादिदानाय कल्पितमित्यर्थः / तद्ददाति / अत्र च परसत्के तत् स्वोमिनाऽननुज्ञाते, परदानाय कल्पिते च दीयमाने अदत्तादानान्तरायादयो दोषाः 27 / अर्थतेषु दायकेषु ददानेषु भिक्षां गृह्णानस्य साधोः प्रायश्चित्तमाहदितेसु एसु चउलहु चउगुरु पगलंत पाउआरूढे / कत्तइ लोढइ पिंजइ विक्खिणइ मद्दए अ मासलहु / / व्याख्या-एतेषु सप्तविंशतिसङ्ख्येषु दायकेषु भिक्षां ददत्सु गृहीतुः साधोश्चतुर्लघु प्रायश्चित्तं भवति / तथा प्रगलन् गलत्कुष्ठः, ततो भिक्षाग्रहणे हि साधोरपि कुष्ठरोगसङ्क्रान्तिः स्यात् तदीयोच्छवासत्वक्संस्पर्शस्वेदमलमूत्रोच्चाराहारलालादिभिः शरीरान्तरे तत् सङ्क्रमणस्याभिहितत्वात् ततो न ग्राह्या। तथा पादुकारूढः-काष्ठादिमयोपानत्समारूढः / स हि भिक्षां प्रयच्छन् दुर्व्यवस्थितत्वात् कदाचित् पतति, कीटिकादिसत्त्वविराधनां च करोतीत्यतोऽसावपि परिहियते / अनयोर्दायकयोर्भिक्षां ददानयोर्गलानस्य साधोश्चतुर्गुरु प्रायश्चित्तं स्यात् / तथा या कर्त्तयति-रूतं सच्चक्रेण सूत्रं करोति / तथा लोढयति कार्पासं लोढिन्यां कनकेत निरस्थिकं करोतीत्यर्थः / तथा पिञ्जयति-रूतं पिञ्जनेन मृदूकरोति / तथा विक्खिण

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182