Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 143
________________ 130 यति-जीतकल्पे गाथासङ्ग्रहीतमूलोत्तरगुणविषयं प्रायश्चित्तं पूर्व प्रतिपादितं, तदनु एकोनविंशतिगाथाभिः सामा. न्यत उत्तरगुणविषयविशकलितातिचारप्रायश्चित्तम भिहितम् / तदेवं मूलोत्तरगुणविषयातिचारप्रायश्चित्तप्रतिपादनेन समर्थितं चारित्राचारातिचारप्रायश्चित्तम् // अथ तपआचारातिचारप्रायश्चित्तं प्रतिपिपादयिषुगहदुविहतवपरूवणया सट्ठाणारोवणा तमकरते। सव्वत्थ होइ लहुओ लीणविणयझाय मुत्तूणं / / 226 // व्याख्या-तपो द्विधा-बाह्यमभ्यन्तरं च / तत्र बाह्यमनशनादि / यदुक्तम् अणसणमूणोअरिआ वित्तीसंखेवणं रसञ्चाओ। कायकिलेसो संलीणता य बज्यो तवो होइ / अभ्यन्तरं तु प्रायश्चित्तादि / उक्तं च प्रायच्छित्तं विणयो वेआवञ्चं तहेव सज्झाओ / झाणं उस्सग्गोवि अ अभितरओ तवो होइ / / तयोः प्ररूपणा नाम प्रज्ञापना, यथा दुमपुष्पिकाध्ययने / द्विविधमपि तत्तपोऽकुर्वतः स्वस्थाना. रोपणा-स्वस्थानप्रायश्चित्तं भवति / तच्चेदं 'सव्वत्थ होइ लहुओत्ति / सर्वेष्वनशनादितपोभेदेषु संलीनताविनयस्वाध्यायवर्जेषु शक्तौ सत्यामकृतेषु लघुमासो भवति / अथाऽवतिष्ठमानसंलीनतादितपाभेदत्रयप्रायश्चित्तं क्रमेणाहदव्वंमि असंलीणे थीनपुसंसत्तवसहिए गुरुगा / पुरिसतिरिएहि लहुगा भावे घाणिदिए रागे // 227 // गुरुगो लहुगो दोसे गुरुगा सेसेसु रागि लोभे अ। दोसे स कोहमाणे लहुगा गुरुगो अ मायाए // 228 / / व्याख्या-संलीनता द्विधा-द्रव्यसंलीनता भावसलीनता च / तत्र द्रव्यसंलीनता स्नोपशुपण्डकसंसक्तवसतिविवर्जनम् / भावसंलीनता पुनर्द्विधा-इन्द्रियप्रतिसंलीनता नोइन्द्रियप्रतिसंलीनता च / इन्द्रियप्रतिसंलीनता पञ्चविधा श्रोत्रेन्द्रियादिकेन्द्रियपश्चकभेदात / नोइन्द्रियप्रतिसंलीनता च चतुर्विधा क्रोधादिकषायचतुष्कभेदात् / साधुना च द्रव्यतो भावतश्च प्रतिसंलीनेन भाव्यं, यः पुनः प्रतिसंलीनो न भवति तस्येदं प्रायश्चित्तं, तद्यथा-द्रव्ये-द्रव्यविषये असंलीनस्य-स्त्रीनपुसकसंसक्तवसतौ वसतः चतुर्गुरुका भवन्ति / पुरुषतिर्यग्भिः संसक्तायां पुनर्वसतौ चतुर्लचुकाः / भावे-भावविषये घाणेन्द्रिये-घाणेन्द्रियविषये रागतोऽसलोनस्य गुरुमासः / द्वेषतोऽसंलीनस्य लघुमासः। शेषेषु श्रोत्रेन्द्रियादिषु चतुर्पु विषये रागतोऽसंलीनस्य चतुर्गुरुकाः। एतेष्वेव च द्वेषतोऽसलीनस्य चतुर्लघुकाः / क्रोधे मानेऽसंलीनस्य चतुर्लघु काः / मायायां गुरुमासः / लोभे च चतुर्गुरुकाः / गाथायां तु व्यस्तोपन्यासो लाघवार्थः / एवं संलीनताप्रायश्चित्तमुक्तम् / अथ विनय-स्वाध्याय-प्रायश्चित्तमाहगुरुवसभमिक्खुखुड्डे अविणय गुरुगाइ जाव लहुमासो। सत्तीइ सुत्तपोरिसि अकरणि लहुगो गुरु अत्थे ___ व्याख्या-गुरुघृषभभिक्षुक्षुल्लानामविनये चतुर्गुरुकादिलघुमासान्तं प्रायश्चित्तम् / आचार्यस्याविनये चतुर्गुरु / उपाध्यायस्याविनये चतुर्गुरु / भिक्षोर्गुरुमासः / क्षुल्लस्य च लघुमासो भवतीत्यर्थः / शक्तौ सत्यां सूत्रपौरुष्या अकरणे लघुमासः / अर्थपौरुष्यो अकरणे गुरुमासः / व्यवहारे स्वित्थं

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182