Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 145
________________ 132 यति-जीतकल्पे व्याख्या-पानस्योऽसंवरणे-विकालवेलायां पानकाहारस्याऽप्रत्याख्याने भिन्नमासः। साधुभिः किल भुक्ता. नन्तरं सर्वाहारसंवरणं कार्यम् / अत एव साधवस्तृतीयपौरुष्यां स्वाध्यायकरणकाले त्रिविधाहारं प्रत्याख्यान्ति, विकाले च पानकाहारमपि / यस्तु विकालेऽपि सर्वसंवरणं न करोति तस्य सर्वाहारासंवरणे लघुमासो भवतीत्युपलक्षणत्वादवसेयम् / तथा नमस्कारसहितपौरुष्यादिप्रत्याख्यानानामग्रहणे गृहीतानां वा भङ्गे लघुमासः / केचित् पुनर्नमस्कारसहितपौरुषीसार्द्धपौरुषीपुरिमार्द्धपोर्द्धद्वयासनकासननिर्विकृतिकाचाम्लक्षपणानां भङ्गे तदधिकप्रत्याख्यानदानमाहुः / इतरे तु यदेवैकासनादि भज्यते तदेवैका. सनादि दीयते इति भणन्ति / तथा अभीक्ष्णं-पुनः पुनः प्रत्याख्यानभङ्गे दशभिर्वाराभिः स्वपदं पाराञ्चिक भवति / तथाहि-सकृत्प्रत्याख्यानभङ्गे मासलघु / द्वितोयवारभङ्गे मासगुरु / तृतीयवारे चतुर्लघु / चतुर्थवारे चतुर्गुरु / पञ्चमवारे षड्लघु / षष्ठवारे षड्गुरु / सप्तमवारे छेदः / अष्टमवारे मुलम् / नवमवारे अनवस्थाप्यम् / दशमवारे पोराश्चिकम् / प्रत्याख्यानभङ्गे चाज्ञातिक्रमादयो दोषाः / इमे चापरे अपञ्चयो अवन्नो पसंगदोसो अ अदढया धम्मे / मोया य मुसावाओ होइ पइन्नाइलोवो अ // यथा एष नमस्कारसहितादिप्रत्याख्यानं भनक्ति तथा मूलगुणप्रत्याख्यानमपि भनक्ति / एवमगीताथगृहस्थानामप्रत्ययं जनयति / आत्मनः साधूनां चावर्णवादं जनयति / प्रत्याख्यानभङ्गप्रसङ्गन मूलगुणानपि भनक्ति / प्रत्याख्यानधर्मे श्रमणधर्मे वा अदृढत्वं कृतं भवति / अन्यां प्रतिक्षां प्रतिपद्यते अन्यच करोतीति माया / अन्यद्भाषते अन्यत्करोतीति मृषावादः / पौरुष्यादिप्रतिज्ञापदटोपः कृतो भवति / प्रत्याख्यानं भनक्तीति प्रद्विष्टा देवता छलनादि कुर्यात् / कारणैः पुनः प्रत्याख्यानभनोऽपि न दोषः / / एवं तप आचारातिचारप्रायश्चित्त प्ररूपितम् / अथ वीर्याचाराऽतिचारप्रायश्चित्तमभिधित्सुराहनाणे दंसणचरणे तवे अ छत्तीसएसु भेएसु / विरिअं न हावइज्जा सट्ठाणारुवण हावते // 233 // व्याख्या-ज्ञानाचारोऽष्टविधः / दर्शनाचारोऽष्टविधः। चारित्राचारोऽष्टविधः / तप आचारो द्वादशविधः / एवमेतेषु ट्त्रिंशत्सु भेदेषु-आचारविशेषेसु वीर्य-शक्तिं न हापयेत्-न गोंपयेत् / वीर्यं हापयतश्च स्वस्थानारोपणा-स्वस्थानप्रायश्चित्तं भवति / ज्ञानाचारं हापयतस्तदेव प्रायश्चित्तं यत् ज्ञानाचारेऽभिहितम् / एवं शेषेष्वपि स्वस्थानप्रायश्चित्तमवगन्तव्यम् / एषा स्वस्थोनारोपणा / / अथ वीर्याचारादिविषयं जीत-व्यवहारगतं प्रायश्चित्तमुपदर्शयतिठवणमणापुच्छाए निविसणे विरिअगृहणाए अ / जीएणं गुरुमासो सेसगमायासु चउगुरुगा // 234 // व्याख्या-स्थापनमिति / स्थापनाकुलानि-दानश्राद्धयथाभद्रकश्राद्धादीनां गृहाणि. एतेषु टेकेनैवाचार्यादिप्रायोग्यग्राहिणा सङ्घाटकेन प्रवेष्टव्यं नान्यरित्यवगणय्य लुब्धत्वाद् गुरोरनापृच्छया तेभ्यः प्रायोग्यभक्ताद्यादाय निविशतः-परिभुञ्जानस्य वीर्यगृहनायां च वीर्य-तपोऽनुष्ठानादिपराक्रमस्तस्य गृहनायां -सतोऽपि मायया गोपनायां जीतेन-जीतव्यवहारेण गुरुमासः / श्रुतव्यवहारेण पुनरेको जीतोक्तो द्वितीयो मायानिष्पन्नः, ततो गुरुमासद्वयं दीयत इति भावः / शेषकमाया-पूर्वोक्तमायातोऽन्या यथा :

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182