Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 144
________________ अतिक्रमादीनां स्वरूपम् सुत्तत्थपोरिसीणं अकरणि मासो उ होइ गुरुलहुगो / चाउकालं पोरिसिओवायणंतस्स चउलहुगा / सूत्रार्थपौरुष्योः-सूत्रपौरुष्या अर्थपौरुष्या इत्यर्थः / अकरणे यथाक्रमं गुरुमासो लघुमासः / अर्थपौरुषी हि प्रज्ञादिविशिष्टसामध्यपेक्षा सूत्रायत्ता च / सूत्रपौरुषो त्वभिनवदीक्षितेनापि जडमतिनापि च यथाशक्ति अवश्यं कर्तव्या। सूत्राभावे सर्वस्याप्यभावाद्, अतः सूत्रपौरुष्या अकरणे मासगुरु / अर्थपौरुष्या अकरणे मासलघु / द्वयोः सूत्रपौरुष्योरकरणे द्वौ लघुमासौ / तिसृणां पौरुषीणामकरणे त्रयो लघुमासा इति सामथ्यात् प्रतिपत्तव्यम् / 'चाउक्काल 'मित्यादि / चतुष्कालं-दिवारात्रिगतप्रथमचरमप्रहररूपेष चतुर्पु कालेषु सूत्रार्थपौरुषोरवपातयतो-भ्रंशयतोऽकुर्वत इत्यर्थः / चतुर्लधुकाश्चत्वारो लघुमासाः / / अणसणमाई नवविहसेसतवोऽकरणि लहुग सत्तीए / वयभंगे लहु सहसप्पमायओ गुरुग दप्पेणं // 230 // व्याख्या - अनशनादेर्नवविधस्य शेषतपसः शक्तौ सत्यामकरणे चतुर्लघुका जीतेनेति सम्भाव्यते / तथा सहसा प्रमादेन वा व्रतभङ्गे लघुमासः / दर्पण-अकुशलपरिणामेन व्रतभङ्गे चतुर्गुरुकाः / व्रतभङ्गे चातिक्रमव्यतिकमातीचारानाचाररूपाः चत्वारो भेदा भवन्ति / एतेषां चाधाकर्म प्रतीत्येदं व्याख्यानम् आहाकम्मामंतण पडिसुणमाणे अतिक्कमो होइ / पयभेआइ वइक्कम गहिए तइएयरो गिलिए / कोऽपि श्राद्धो नालप्रतिबद्धो ज्ञातिप्रतिबद्धो गुणानुरक्तो वा आधाकर्म निष्पाद्य निमन्त्रयति / यथाभगवन् ! युष्मन्निमित्तमस्मद्गृहे सिद्धमन्नमास्ते इति समागत्य प्रतिगृह्यतामित्यादि, तत्प्रतिशृण्वतिअभ्युपगच्छति अतिक्रमो नाम दोषो भवति / स च तावत् यावदुपयोगपरिसमाप्तिः / किमुक्तं भवतियत्प्रतिशृणोति, प्रतिश्रवणानन्तरं चोत्तिष्ठति, पात्राण्युद्गृह्णाति, उद्गृह्य च गुरोः समीपमागत्योपयोगं करोति / एष समस्तोऽपि व्यापारोऽतिक्रमः / उपयोगपरिसमाप्त्यनन्तरं च यदाधाकर्मग्रहणाय पदभेदं करोति, आदिशब्दात मार्गे गच्छति, गृहं प्रविशति, आधाकर्मग्रहणाय पात्रं प्रसारयति, न चाद्यापि प्रतिगृह्णाति / एष सर्वोऽपि व्यापारो व्यतिक्रमः / 'गहिए तइए'त्ति / आधाकर्मणि गृहीते, उपलक्षणमेतत् यावद्वसतौ समानीते गुरुसमक्षमालाचिते, भोजनार्थमुपस्थापिते, मुखे प्रक्षिप्यमाणेऽपि च यावन्नाद्यापि गिलति तावत्ततीयोsतीचारलक्षणो दोषः / गिलिते त्वाधाकर्मण्यनाचारः। एवमन्यत्राप्यतिक्रमादिस्वरूपमवगन्तव्यम् / एतेषु चेदं प्रायश्चित्त, तद्यथा-अतिक्रमे व्यतिक्रमे अतीचारे च मासगुरुः यथोत्तरं तपःकालविशेषितः / अनाचारे चतुर्गुरु / एते च मासगुर्वादयः प्रायश्चित्तभेदा अतिक्रमादिष्वविशोधिकोटयां द्रष्टव्याः / विशोधिकोटयां त्वेत एव मासादयो लघुकाः / अथाष्टम्यादिपर्वदिनेषु यथोक्ततपोऽकरणे प्रायश्चित्तमाहचउछट्टट्ठमऽकरणे अट्ठमिपक्खचउमासवरिसेसु / लहु गुरु लहुगा गुरुगा अवंदणे चेइसाधूणं // 231 // व्याख्या--अत्र यथासङ्ख्येन पदयोजना / सा चैवम्-अष्टम्यां चतुर्थस्याकरणे मासलघु / पाक्षिकेचतुर्दश्यां चतुर्थस्याकरणे मासगुरु / चतुर्मासके षष्ठस्याकरणे चत्वारो लघुमासाः / सांवत्सरिके अष्टमस्याकरणे चत्वारो गुरुमासाः / तथा एतेषु चाष्टम्यादिषु दिवसेषु चैत्यानां जिनबिम्बानामन्यवसतिगतसुसाधूनां चावन्दने प्रत्येकं मासलघु / अथ प्रत्याख्यानाऽकरण-भङ्गप्रायश्चित्तमाहपाणासंवरि भिन्नं नवकाराईण अगहणे भंगे / लहु तदहिअ तंम अभिक्खभंगे दसहिं सपयं // 232 //

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182