Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ यति-जीतकरूप - पासस्थासम्भाणं फुसील-संसात-निअयवासीणं / जे भिक्खू असणाई दिज्ज पडिच्छिन्न वाणाई'। पार्श्वस्थादयश्वोद्गमादिदोषेषु नित्यं वर्तन्ते / अतस्तेषां दाने ते अनुमोदिताः, तेषां च हस्ताद ग्रहणे उगमादिदोषाः प्रतिसेविता भवन्ति / तथा चोक्तम् उग्गमदोसादीआ पासत्थाई जओ न वज्जति / तम्हा उ तव्विसुझिं इच्छंतो ते विवज्जिज्जा / / सूइज्जह अणुरागो दाणेणं पीहतो अगहणं तु / संसग्गया य दोसा गुणा यः इअ ते परिहरिजा // .. तुसंसर्गतो बहुदोषाः, अदुएसंसर्गतच गुणा भवन्ति / अन्न च वमशुकोदाहरणं यथा माताप्येका पिताप्येको मम तस्य च पक्षिणः / अहं मुनिमिरानीतः स च नीतो गवाशनैः // 1 // गवाशनानां स गिरः शृणोति अहं तु राजन् ! मुनिपुङ्गवानाम् / प्रत्यक्षमेतद्भवतापि दृष्टं संसर्गजा दोषगुणा भवन्ति // 2 // अत्राऽयमपवादः असिवे ओमोदरिए रायढे भये व गेलन्ने / अद्भाणरोहए वा दिज्जो अहवा पहिच्छिज्जा / सथा योऽन्यतीथिकाना गृहस्थानां वा वस्त्रादि ददाति गृह्णाति वा, प्रातिहारिकं वा तेषां ददाति. तेषां समीपाद्वा प्रातिहारिकं गृह्णाति तस्य चतुर्लघु आज्ञादयश्च दोषाः / तथा चोक्तम् - जे भिक्खू वत्थादी विजा गिहि अहव अन्नतित्थीणं / पडिहारिगं व तेसिं पडिच्छए आणमाईणि // दाने ग्रहणे च बहवो दोषाः प्रतोता एव / 'जुत्तमदाणमसीले' इत्यादिचालना तत्प्रत्यवस्थानं चाहारवद् ववेऽपि ज्ञातव्यम् / एवं पावस्थादीनामपि यो वस्त्रं ददाति तेषां हस्ताद्वो प्रातिहारिकं गृह्णाति तस्य चतु. लघु / उक्तं च जे मिक्खू वत्थाई पासत्थोसन्ननिययवासीणं / दिज्जा अह पडिच्छे सो पावइ आणमादीणि // इमो अववाओ-गिही अन्नतिथिओ वा सेहो पञ्चईउकामो तस्स दिजइ / जत्थ सुलभं वत्थं तमि विसए अंतरे वा असिवादि हुज्जा / एवमादिकारणेहिं तं विसयमगच्छंतो इह अलभंतो पासत्यादिवत्थं गिहिज्जा, दिज्जा वा तेसिं, अद्धाणे वा वच्चंता मुसिआ अन्नतो अलभता पासत्यादिवत्थं गिव्हिज्जा / 'हिमदेसे वा सीताभिभूआ पाडिहारिअंगिहिज्जा, गिलाणस्स वा अत्थुरणादि गिहिज्जा एवमादि / तथाठिअकप्पंमि दसविहे ठवणाकप्पे अ दुविहमण्णतरे / उत्तरगुणकप्पंमि अ जो सरिकप्पो ससरिसो उ' / / स्थितकल्पादिमिर्यस्तुल्यः स साधुः सदृशः / अथवा-संविग्नः सर्वोऽपि सदृशः साम्भो. गिको वा सदृशः / अथवा कारणे पार्श्वस्था असाम्भोगिका अपि सदशास्तेषां वसतिमध्ये विद्यमानं स्थानं यो न ददाति तस्य चतुर्लघु / अग्न्यादिना वसत्युपद्रवीत् श्वापदादिभयाद्वा शैक्षग्लानाद्यर्थं वा अध्वप्रपन्ना वा / एवमादिभिः कारणैर्ये आगतास्तेषां विद्यमानस्थानादाने चतुर्गुरु / सम्भोगव्युच्छित्तिः साधर्मिकवात्सल्यव्युच्छित्तिः प्रवचनव्युच्छित्तिर्वा भवति / तस्मात् साधुना साधुषु दृढसोह्रदेन भाव्यम् / आपत्सु चात्मवदन्योऽपि रक्षणीयः / उक्तं च

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182