Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ पानाहारविषयं प्रायश्चित्तम् 91 शेषास्तु मन्दम् / ततस्तेषामपि मतेन कदाचिन् मिश्रस्याप्यचित्तत्वसम्भावनया ग्रहणप्रसङ्गः / कदाचित पुनरचित्तीभूतस्यापि मिश्रत्वशङ्कासम्भवादग्रहणमिति त्रयोऽप्यनादेशाः / अयं पुनरादेश आगमिकः __जाव न बहुप्पसन्नं ता मीसं एस इत्थ आएसो / होइ पमाणमचित्तं बहुप्पसन्नं तु नायव्वं'। व्याख्या-यावत् तन्दुलोदकं न बहुप्रसन्नं-नातिस्वच्छीभूतं तावन् मिश्रमवगन्तव्यम् / एषोऽत्र मिश्रविचारप्रक्रमे भवत्यादेशः प्रमाणं, न शेषः। यत्तु बहुप्रसन्नमतिस्वच्छीभूतं तदचित्तं ज्ञातव्यम् / तथा चोक्तम् _ 'जं जाणिज्ज चिराधोअं मइए दंसणेण वा / पडिपुच्छिऊण सुच्चा वा जं च निस्संकिअं भवे // ततोऽचित्तत्वेन तस्या ग्रहणे न कश्चिद्दोषः। एवमपरधावनेष्वपि प्रथमद्वितीयतृतीयधावनोदकानि मिश्राण्यवगन्तव्यानि, चतुर्थादीनि तु सचित्तानि / तान्यपि च मिश्रधावनोदकानि उत्स्वेदिमसंस्वेदिममिश्रोदकानि च यदा रसत आम्लरसानि, वर्णतो विवर्णानि, गन्धतोऽन्यगन्धानि, स्पर्शतश्चिप्फिलानि जायन्ते तदा परिणतानि ज्ञातव्यानि / तेषां ग्रहणे न दोषः / ___ एवं पानाहारविषयं प्रायश्चित्तं प्रदर्य खादिमाहारविषयं तदाहखाइमि भावे दव्वे अभिन्नभिन्ने पलंबि चउभंगो / पढमे कालतवगुरू लहुगा बीअम्मि तवगुरुगा॥ तइए कालगुरु लहु चरमे लहु दोहि लहु इअ परित्ते / ते गुरुगणंति खाइमि लवंगपूआइए गुरुगा // ___ व्याख्या-प्रलम्बते-नैरयिकादिकां गतिं प्रति लम्बते येन भुक्तेन जीवः तत् प्रलम्बम् / तच्च दशधा तद्यथा 'मूले कंदे खंधे तया य साले पवोलपत्ते अ / पुप्फे फले अ बीए पलंबसुत्तम्मि दसभेआ'। मूलं, कन्दः, स्कन्धः, त्वक्-छल्ली, शाला-शाखा, प्रवालं-पल्लवः, पत्रं, पुष्पं, फलं, बीजम् / एवं दशप्रकारं प्रलम्बं भवति / सर्वमप्येतत् द्विधा-भिन्नम् अभिन्नं च / पुनः प्रत्येकं द्विधा-द्रव्यतो भावतश्च / तत्र यद् विदारितं तत् द्रव्यतो भिन्नं, जीवेन विप्रमुक्तं यत् तद् भावतो भिन्न तद्विपरीतं त्वभिन्नम् / अत्र चत्वारो भङ्गा भवन्ति / तद्यथा-द्रव्यतो भोवतश्चाऽभिन्नं, द्रव्यतो भिन्नं भावतस्त्वभिन्नं, भावतो भिन्नं द्रव्यतः पुनरमिन्नं, द्रव्यतो भावतश्च मिन्नम् / एतेषु चतुर्वपि भङ्गेषु क्रमेण प्रायश्चित्तं प्रदश्यते / यथा-खादिमे-खादिमाहारमध्ये प्रथमे-प्रथमभङ्गप्रदर्शितप्रलम्बे द्रव्यतो भावतश्चामिन्ने इत्यर्थः / गृहीते भिक्षोश्चत्वारो लघुका मासाः / कथम्भूताः ? कालतपोगुरवःकालेन तपसा च गुरवो भवन्ति / द्वितीये भङ्गे चत्वारो लघुकास्तपोगुरवः-तपसैवैकेन गुरवो न कालेनेत्यर्थः / एतयोर्द्वयोरपि भङ्गयोर्भावतोऽभिन्नतया प्रलम्बस्य सचेतनत्वात् / तृतीये भङ्गे लघुको मासः कालगुरुः-कालेन गुरुन तु तपसा / चरमे-चतुर्थे भङ्गे लघुमासो द्वाभ्यां लघुः। कालेन तपसा च लघुरित्यर्थः। इति-उक्तप्रकारेण परीत्ते प्रत्येकवनस्पतिलक्षणे प्रलम्बे प्रायश्चित्तं भणितम् / अनन्तेऽनन्तकायप्रलम्बे पुनस्तानि प्रायश्चित्तानि गुरुकाणि ज्ञातव्यानि / प्रथमद्वितीययोर्भङ्गयोश्चत्वारो गुरुकाः / तृतीयचतुर्थयोस्तु गुरुमासः प्रायश्चित्तं तपःकालविशेषितं पूर्ववद्वक्तव्यमिति भावः / तथा प्रलम्बानि गृहृता

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182