Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ यति जीतकल्पे पतित्पन्नो जिह्वानिालनेन साधूननुशशास / विपक्षे आर्यसमुद्रनिदर्शनं-ते हि रसगृद्धिभीता एकतः सर्वं मिलित्वा भुञ्जते स्म / तथाच-'अरसं विरसं वावि सव्वं भुंजे न छड्डए' इति सूत्राभिहितं कृतं स्यात् / अमनोज्ञलाभेऽपि मनोज्ञभक्तादिनिमित्तं गोचरचर्या दीर्घा स्यात् / तथाच सूत्रार्थपरिमन्थो भवेत् / अमनोज्ञभक्तपरिष्ठापने च जन्तुविराधना स्यात् / यस्मादेते दोषोः ततो विधिना भोक्तव्यम् / स चाऽयम्-आचार्य-ग्लान-बाल-वृद्ध-प्राघुर्णकादीनां प्रायोग्यं पूर्व दत्त्वा शेषं मनोज्ञममनोज्ञं च द्रव्याविरोधेन करम्बयित्वा मण्डलीरात्निको मण्डल्या सह भुङ्क्ते / एवं सर्वेषां समता स्यात् / पूर्वोक्तदोषाश्च परिहृता भवन्ति / एवममनोझं कलुषं पानीयं परिष्ठाप्य मनोज्ञमच्छं पिबतो दोषा ज्ञेयाः / कलुषपानीयपरिष्ठापने च मक्षिका पिपीलिकादिबहुत्रसजन्तुघातो भवति / अत्रापीयं सामाचारीकलुषमच्छं च जलं पृथक्कृत्वा प्रथमं कलुषं पिबन्ति पश्चादच्छम् / एवं गृद्धिदोषो न स्यात् / आचार्याऽभावितशैक्षग्लानादीनामच्छं दीयते / भाजनकल्पकरणबहिर्भूमिव्यापारणादावच्छं जलं गृह्यते / अन्यथा सागारिकः कलुषजलं दृष्ट्वा सपाखण्डिष्वेते अधमतरा अशुचित्वादित्यपभ्राजनां लोके. करोति, अनादरं वा तद्व्यान्यद्रव्यव्यवच्छेदं वा / कारणैः पुनरमनोज्ञं परिष्ठाप्य मनोज्ञं गृह्णानोऽपि प्रायश्चित्त-' भाग् न स्यात् / तथा अशनादिचतुर्विधाहारगतकियद्वस्तुविशेषग्रहणविषयं प्रायश्चित्तं क्रमेणोपदर्शयन्नाहअसणे अकारणं दुद्धदहिअभोगम्मि गुरुग लुद्धस्स / पाणम्मि गुरुग विअडे सचित्तजलि छलहु लहुमीसे / व्याख्या-इहाशनाहारमध्ये साधूनां दुग्धध्यादिविकृतयः कारणं विना न कल्पन्ते गृहीतुम् / अकारणग्रहणे चायं दोषः 'विगई विगईभीओ विगइगयं जो उ भुंजए साहू / विगई विगइसहावा विगई विगई बला नेई' / / बीभत्सा विकृता वा गतिर्विगतिः-नरकतियककुमनुष्यत्वकुदेवत्वलक्षणा / अथवा विविधा गतिविगतिः-संसारः / अथवा संयमो गतिः, असंयमो विगतिः तस्या भीतो विगतिभीतो यः साधः विकृति-क्षीरादिकां विकृतिगतं-विकृतिप्रकारं विकृतिर्वा यस्मिन् द्रव्ये गता तत् विकृतिगतं क्षोरान्नादिकं भुक्ते स दुर्गतिं यातीति वाक्यशेषः / यतो विकृतिबलाज्जीवमनिच्छन्तमपि विगति-नरकादिकां नरतिप्रापयति / एतदपि कुतः ? / विकृतियतो विकृतिस्वभावा-विकारजननस्वभावा संयमयोगभ्रंशजननस्व. भावेत्यर्थः / यत एवमतो विकृतयो न ग्राह्याः कारणमन्तरेण / सम्प्रति चेयं सामाचारी साधूनां-दुग्धदधिगुडरूपा एतास्तिस्रो विकृतयो विकृष्टतपऔषधादिकारणं विना न कल्पन्ते / घृततैलविकृती तु प्रत्यहं न कल्पेते, संयमयोगनिर्वाहार्थं पुनः कदाचित्कल्पेते / उद्गाहिमविकृतिरपि जिह्वालौल्येन न कल्पते / एवं पानखादिमस्वादिमाहारगतकि यद्वस्तूनि न कल्पन्ते / तद्ब्रहणे च प्रायश्चित्तं / तद्यथो अशने-अश नाहारमध्ये अकारणं-कारणं विना दुग्धदधिभोगे-दुग्धदधिग्रहणे लुब्धस्य- गृद्धस्य साधोर्गुरुका मासाश्चत्वारः स्युः / 'लुब्धस्येति'वचनात् तक्राद्यभावे तद्ग्रहणेऽपि न दोषः / तथा पाने-पानाहारमध्ये विकटे-मद्ये गृहीते गुरुकाश्चत्वारो मासा भवन्ति / सचित्तजले गृहीते षड्लघु प्रायश्चित्तम् / मिश्रे-सचित्तोऽचित्तरूपे जले गृहीते लघुमासो भवति / इह च साधूनां कल्पाध्ययनोक्तानि पानीयान्यमूनि 'उस्सेइमसंसेइमचाउलओदगं च तिलतुसजवाणं / आयामं सोवीरं सुद्धविअडमिअ जलं नवहा' /

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182