Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ लिप्तदोषप्रायश्चित्तम् बीजापरिणते-अपरिणतानि-अप्रासुकानि यानि प्रत्येकानन्तवनस्पतिबीजानि तेषां ग्रणे पञ्चक-प्रथमप्रायश्चित्तमित्यर्थः / मिश्रषट्कायापरिणतदोषे / मिश्राः-सचित्ताऽचित्तरूपा ये षट कायाः-पृथिव्यादयः तानाश्रित्यापरिणतदोषे अप्रासुकीभूतमिश्रषटकायग्रहणे इत्यर्थः। लघुमासं प्रायश्चित्तमुक्तवन्तः तीर्थकरगणधराः / सचित्तणतकाए अपरिणए चउगुरुं मुणेअव्वं / मीसाणंतपरिणए गुरुमासो भासिओ गुरुणा // 160 // व्याख्या-सचित्तः-सजीवो योऽनन्तकायः तस्मिन्नपरिणते-अप्रोसुके गृहीते चतुर्गुरु प्रायश्चित्तं मुणितव्य-ज्ञातव्यम् / मिश्रः-सचित्ताचित्तरूपो योऽनन्तकायः तस्मिन्नपरिणते गृहीते गुरुमासो भाषितःप्रतिपादितो गुरुणा-जगद्गुरुणा जिनेन इति / अपरिणतदोषप्रायश्चित्तमभिधाय लिप्तदोषप्रायश्चित्तमाहचउलहुअं लहइ मुणी लित्ते दहिमाइलित्तकरमत्ते / छड्डिअमिह पुढवाइसु अणंतरपरंपरंति दुहा / / ___ व्याख्या-इह दधिक्षीरघृततैलतीमनप्रभृतिद्रव्यस्य यस्य लेपः करभाजनादौ लगति तल्लेपकृत्लिप्तमुच्यते / तच्च कारणं विना न ग्राह्यम् / यदाह 'चित्तव्वमलेवकडं लेवकडमाहु पच्छकम्माई / न य रसगेहिपसंगो न य भुत्ते बंभपीडा य' / / इह साधुना सदैवाऽलेपकृद वल्लचणककुल्माषशुष्कोदनादि गृहीतव्यं, मा भूवन् लेपकृति गृह्यमाणे पश्चात्कर्मादयो दोषा दध्यादिलिप्तहस्तादिक्षालनादिरूपाः / न च सदैवाऽलेपकृग्रहणे रसगृद्धिप्रसङ्गोरसाऽभ्यवहारलाम्पट-यवृद्धिः / न च तादृशे भुक्ते ब्रह्मपीडा-ब्रह्मव्रतस्य बाधा, तादृशस्य नीरसाहारस्य दोत्पादकत्वाभावात् / अत्राह नोदको-ननु यदि लेपकृद्ग्रहणे पश्चात्कर्मप्रभृतयो दोषी भवन्ति ततः तन्न गृह्यते, तर्हि मा कदाचनापि साधुर्मुक्ताम् / एवं हि सर्वेषां दोषाणां मूलत एवोत्थानं निषिद्धं भवति / गुरुराह-सर्वकालं क्षपणमेव कुर्वतः साधोश्चिरकालभावितपोनियमसंयमानां हानिर्भवति, तस्मा• द्यावज्जोवं क्षपणं न कार्यम् / पुनः प्राह-यदि सर्वकालं क्षपणं कर्तुमशक्तः तर्हि षण्मासक्षपणं कृत्वा पारणकमलेपकृता विधत्ताम् / गुरुराह-यद्येवं तपः कुर्वन् संयमयोगान् कतुं शक्नोति तर्हि करोतु, न कोऽपि तस्य निषेद्धा। पुनरप्याह-यदि षण्मासक्षपणं कर्तुं न शक्नोति तर्हि एकदिनोनं षण्मासक्षपणं कृत्वा आचाम्लेन पारयतु / एवमेकैकदिनहान्या तावदात्मानं तोलयेत् यावच्चतुर्थं कृत्वा आचाम्लेन पारणकं करोतु / एवमप्यसामर्थ्य दिवसे दिवसे गृह्णात्वाचाम्लं निर्लेपम् / गुरुराह-करोत्वेवं तपः यदि प्रत्युपेक्षणादिसंयमयोगभ्रंशो न भवति / केवलं सम्प्रति सेवार्तसंहननानां नास्ति ताहशी शक्तिरिति न तथोपदेशो विधीयते / पुनः परः प्राह-ननु महाराष्ट्राः कोशलदेशोद्भवाः सदैव सौवीरकूरमात्रभोजिनः तेऽपि च सेवार्त्तसंहननाः। ततो यदि तेऽपीत्थं यापयन्ति यावज्जीवं तर्हि तथा सौवीरकूरमात्रभोजनेन किं न यतयो मोक्षगमनैकबद्धकक्षा यापयन्ति ? तैः सुतरामेवं यापनीयं प्रभूतगुणसम्भवात् / गुरुराह 'तिअ सीअं समणाणं तिअमुण्ह गिहीण तेणणुन्नायं / तक्काइणं गहणं कट्टरमाइसु भइअव्व ' / त्रिकं-वस्तुत्रयं श्रमणानां शीतं भवति, तेन प्रतिदिवसमाचाम्लकरणे तक्राद्यभावत आहारपाकासम्भवेनाsजीर्णादयो दोषाः प्रादुःष्यन्ति / तदेव त्रिकमुष्णं गृहिणां, तेन सौवीरकूरमात्रभोजनेऽपि तेषामाहारपाक

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182