Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ स्वस्थानप्रायश्चित्तम् इत्ति / विकी र्गयति-रूतं कराभ्यां पौनःपुन्येन श्लक्ष्णयति / एताभिश्चतसृभिरपि दीयमानं न कल्पते, कर्पासास्थिकसट्टनदेयवस्तुखरण्टितहस्तधावनदोषसम्भवात् / एताभ्यश्चतसृभ्यो दायिकाभ्यः सकाशाद् भिक्षाग्रहणे मईके च-प्रमर्दनप्रवृत्ते दातरि च मासलघु प्रायश्चित्तं भवति / अथ षटकायान् विराधयन्ती या दात्री ददाति / तद्विषयं प्रायश्चित्तमाहछक्कायवग्गहत्था समणट्ठा निक्खिवित्तु ते चेव / घटुंती गाहंती आरंभंती अ सट्ठाणं // 152 // व्याख्या-षट्कायव्यग्रहस्ता-षट्काययुक्तहस्ता / इह षट्कायव्यग्रहस्ता सो उच्यते यस्या हस्ते सजीवं लवणमुदकमग्निर्वायुपूरितो दृतिकः, फलादिकं बीजपूरादि मत्स्यादयो वा विद्यन्ते / ततः सा श्रमणार्थ-श्रमणभिक्षादानार्थमुत्थाय षटकायान् भूम्यादौ निक्षिप्य पुनस्तानेव घट्टयन्ती-तत् सङ्घर्ट कुर्वाणा / तानेव गाहमाना-विलोडनेन इतस्ततो विक्षेपणेनाऽगाढं गाढं वा परितापयन्ती / तानेव आरममाणा चं-षटकायोपद्रव करमारम्भं कुर्वाणा खननमर्दनादिना पृथ्वीकार्य, मजनवस्त्रधावनादिनाsकायम् , उल्मुकघट्टनादिनाऽग्निम् , अग्न्यादेः फूत्करणादिना मारुतं, फलादेः कर्त्तनादिना वनस्पति, स्फुरन्मत्स्यादिछेदनादिना त्रसकायं च विराधयन्तीत्यर्थः / एवंविधा दात्री यदि ददाति, ततो गृहीतुः साधोः स्वस्थानं प्रायश्चित्तं भवति / अयमभिप्रायो-जीतकल्पेऽस्यापराधस्य यत् प्रायश्चित्तमुक्तमस्ति तत् तस्य स्वस्थानम् / एतदेव स्वस्थानप्रायश्चित्तं गाथायुगलेन व्यक्तमेव दर्शयतिभूजलसिहिपवणपरित्तघट्टणागाढगाढपरिआवे / उद्दवणे वि अ कमसो पणगं लहु गुरु अ मास चउलहुआ॥ व्याख्या-पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां सङ्घट्टाऽगाढपरितापगाढपरितापोपद्रवान् कुर्वाणो यदि दात्री ददाति तदा क्रमशः-क्रमेण साधोरिदं प्रायश्चित्तं भवति / यथा-सङ्घढे पञ्चकम् / अगाढपरितापे लघुमासः / गाढपरितापे गुरुमासः / उपद्रवे चतुर्लघुकाः / * लहुमासाई चउगुरुअंतं विगलेसु तह अगंतवणे / पंचिंदिसु गुरुमासाइ जाव कल्लाणगं एगं // 154 // - व्याख्या -विकलेन्द्रियाणां-द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां तथा अनन्तवनस्य-अनन्तकायवनस्पतेः सङ्घट्टाऽगाढपरितापगाढपरितापोपद्रवान् चेत् कुर्वती दात्री भिक्षां ददाति तदा गृह्णानस्य साधोलघुमासादि चतुर्गुवन्तं प्रायश्चित्तं क्रमेण भवति / सङ्घटे लघुमासः / अगाढपरितापे गुरुमासः / गाढपरितापे चतु लघु / उपद्रवे चतुर्गुरु स्यादित्यर्थः / तथा पञ्चेन्द्रियाणां सङ्घट्टोऽगाढपरितापगाढपरितापोपद्रवान् कुर्वत्या दाच्याः सकाशाद् भिक्षां गृह्णतो गुरुमासादि यावत् कल्याणकमेकं प्रायश्चित्तं भवति / सङ्घद्धे गुरुमासः / अगाढपरितापे चतुर्लघु / गाढपरितापे चतुर्गुरु / उपद्रवे एक कल्याणकमिति भावः / अथाऽनेकद्वीन्द्रियाधुपघातप्रायश्चित्तं समाचारीगतगाथया दर्शयति -- एगाइदसतेसुं एगाइदसतयं सपच्छित्तं / तेण परं दसगं चिअ बहुएसुवि सगलविगलेसु // 155 / / व्याख्या-कयाचिद् दाच्या साधोभिक्षा ददत्या प्रमादवशेन एकादयो दशान्ता द्वीन्द्रियादयोद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपश्चेन्द्रिया व्यापादिताः , ततस्तत्र भिक्षां गृह्णानस्य साधोरेकादिपु दशान्तेषु

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182