Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 41
________________ 38 यति-जीतकल्प समुद्भूतकामाभिलाषोऽधिसोढुं न शक्नोति स क्लीबः / भगन्दरातीसारकुष्ठप्लीहशूलार्शःप्रभृतिरोगैस्तो व्याधितः / क्षत्रखननमार्गपातनादिचौर्यनिरतः स्तेनः / श्रीगृहान्तःपुरनृपतिशरीरतत्पुत्रादिद्रोहविधायको राजापकारी / यक्षादिना प्रबलमोहोदयेन वा परवशतां नीत उन्मत्तः / न विद्यते दर्शनं-हग यस्येत्यदर्शनो-ऽन्धः स्त्यानर्द्धिनिद्रोदयवानप्यत्र दृष्टव्यः / गृहदास्याः सञ्जातो, दुर्भिक्षादिष्वर्थादिना वा क्रोतः, ऋणादिव्यतिकरे वाऽवरुद्धो दास उच्यते / दुष्टो द्विधा-कषायदुष्टो विषयदुष्टश्च / तत्र सर्षपभर्जिकाभिनिविष्टसाध्वादिवद् उत्कटकषायः कषायदुष्टः / अतीव परयोषिदादिषु गृद्धो विषयदुष्टः / स्नेहाऽज्ञानादिपरतन्त्रतया यथास्थितवस्त्ववगमशून्यमानसो मूढः / यो राजादीनां हिरण्योदिकं धारयति स ऋणातः। जातिकर्मशरीरादिभिर्दूषितो जुङ्गितः। तत्र मातङ्गकौलिकवरुडसूचिकछिम्पकादयोऽस्पृश्या जात्या जुङ्गिताः / स्पृश्या अपि स्त्रीमयूरकुक्कुटादिपोषकाः / वंशवरत्राऽऽरोहणनखप्रक्षालनसौकरिकत्ववागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिताः / करचरणकर्णादिवर्जिताः पङ्गुकुब्जवामनककाणप्रभृतयः शरीरजुङ्गिताः / अर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्त वा एतावन्ति दिनानि त्वदीयोऽहमित्येवं येनाऽऽत्मनः परायत्तता कृता भवति, सोवबद्धः / रूपकादिमात्रया भृत्या धनिनां गृहे दिनपाटिकादिमात्रेण. सदादेशकरणे प्रवृत्तो भृतकः / शिक्षकस्य दीक्षितुमिष्टस्य निःस्फेटिका-अपहरणं शिक्षकनिःस्फेटिका / तद्योगायो मातापित्रादिभिरननुज्ञातोऽपहृत्य दीक्षितुमिष्यते, सोऽपि शिक्षकनिःस्फेटिका / इत्येतेऽष्टादश पुरुषेषु दीक्षाऽनर्हाः भेदाः। एतेषां बालादीनां दीक्षाप्रदाने प्रवचनमालिन्य-संयमात्मविराधनादयो दोषाः सुखावसेया एवेति न दर्शिताः / वैरखाम्यादीनां च प्रव्राजनेऽपवादपदं निशीथादवसेयम् / एते एव चाष्टादशभेदाः स्त्रीष्वपि, परं नपुंसकद्वारेऽयं विशेषः-यः पुरुषनपुंसकः स प्रतिसेवते प्रतिसेवापयति च। स्त्रीनपुंसिका पुनः स्त्रीवेदं नपुंसकवेदमपि वेदयति / अन्यावपि द्वाविमौ भेदौ भवतः , तद्यथा-गुर्विणीसगर्भा, सबालवत्सा-सह बालेन-स्तनपायिनो वत्सेन वर्तत इति सवालवत्सा / एते सर्वेऽपि विंशतिः स्त्रीभेदा दीक्षाऽनर्हाः / नपुंसकाः पुनः षोडश भेदा भवन्ति, तद्यथा- . 'पंडए वाइए कीवे कुंभी इस्सालुए इअ / सउणी तक्कमसेवी अ पक्खिआपक्खिए इअ॥ सोगंधिए आसित्ते वद्धिए चिप्पिए इअ / मंतो-सहीउवहए इसिसत्ते देवसत्ते अ॥ पण्डकः, वातिकः, क्लीबः, कुम्भी, ईर्ष्यालुः, शकुनी, तत्कर्मसेवी, पक्षिकाऽपक्षिकः, सौगन्धिकः, आसिक्तः, वर्द्धितः, चिप्पितः, मन्त्रोपहत, औषध्युपहतः, ऋषिशप्तः, देवशप्तः / तत्र पण्डकस्येमानि षड् लक्षणानि 'महिलासहावो सरवन्नभेओ मेंढं महंत मउआ अ वाणी / ससहयं मुत्तमफेणगं च एआणि छप्पंडगलक्खणाणि' // पुरुषाकारधारिणोऽपि महिलास्वभावत्वं पण्डकस्यैकं लक्षणं, तथाहि-गतिस्तस्य पदाकुला मन्दा भवति, सशकं पृष्ठतोऽवलोकमानो गच्छति / शरीरं च शीतलं मृदु च भवति / योषिदिवाऽनवरतं हस्तोभका प्रयच्छन् उदरोपरि तिर्यग् व्यवस्थापितवामकरतलस्य उपरिष्टादक्षिणकरकूर्पूरं विन्यस्य दक्षिणकरतले प मुखं कृत्वा बाहू च विक्षिपन भाषते / अभीक्ष्णं च कटीहस्तकं ददाति / प्रावरणाभावे श्रीवा बाहुभ्या पुरुमा

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182