Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 51
________________ यति-जीतकल्पें दर्शितम् / अथ प्रकृतमेव दर्यते-एवं यतनया एकनदीबहुसङ्घट्टे-एकस्यां एव नद्या बहून् - बारान् सचट्टे जाते सति गुरुको मासः प्रायश्चित्तम् / एकसट्टे-एकवारं सङ्घहे लघुकश्च मासः / यत्र तु सट्टेन गन्तुं न शक्यते, तत्र लेपेन गम्यते / यत्र तु लेपेनाऽपि गन्तुं न पार्यते, तत्र लेपोपरिणापिगम्यते / तत्र चेयं यतना-यदि स साधुग्रहिसार्थसहायस्तत उदकसमीपं गत्वोर्ध्वकायं मुखवत्रिकयाऽधःकायं रजोहरणेन प्रमाोपकरणमेकतः कृत्वा यदि चौरादिभयं न स्यात् ततो गृहस्थानां पश्चादुदकमवतरति / यथा यथा चोण्डमुण्डतरजलमवगाहते तथा तथोपर्युपरि चोलपट्टकमुत्सारयेत् येन न तीम्यते / अथ तत्र सभयं अगाधं वा जलमतो यदा कियन्तोऽपि गृहस्था अग्रतोऽवतीर्णास्तदा मध्ये साधुना अवतरणीयं चोलपट्टकं च दृढं बध्नीयात् / एतेन विधिनोत्तीर्णस्य यदि चोलपट्टकोऽन्यद्वा किश्चिदुपकरणजातं तीमितं, तदाऽयं विधिः-उदकतीरे स्निग्धपृथिव्यामप्कायरक्षार्थं तावत्तिष्ठेद् यावच्चोलपट्टोन्यद्वोपकरणं निष्प्रगलं भवति / अथ तत्र चौरादिभयं ततः प्रगलन्तमेव तं चोलपट्टकं हस्ते दण्डके वा प्रलम्बमानं गृहीत्वा कायेनाऽस्पृशन् गच्छति / यदा च सार्थविरहित एकाकी साधुरुत्तरति, तदाऽयं विधिः-सर्वोपकरणमवतरणतीरे मुक्त्वा आत्मप्रमाणाच्चतुरगुलातिरिक्तां यष्टिं गृहीत्वा तयाऽस्ताघतामनुमीय परतीरात् प्रत्यागत्य सर्वोपकरणमेकत्र कृत्वा तेन परीक्षितजलपथेनोत्तरति / अस्ताघे च जले यत्र लेपोपरिणाऽपि गन्तुं न शक्यते, तत्र बाहुभ्यां न तरणीयं हस्तादिप्रक्षेपे बहूदकोपघातभावात् / किन्तु जलभावितैः कुम्भादिभिः सन्तरणं कार्यम् / तत्र प्रथमं कुम्भेन-घटेन / अथवा घटेश्चतुष्कोष्ठकोणकनिबद्धैः प्रापकेणेत्यर्थः / तदभावे दृतिकेन-वातपूर्णेन / तदभावे तुम्बेन-तुम्बकजाले. नेत्यर्थः / तदभावे उडुपेन-कोट्टिम्बकेन / तदभावे पर्ष्यापर्णीमयभारकैः / तदभावे च नावा गन्तव्य तथाविधकारणे समुत्पन्ने / एतेषां च विपर्यासग्रहणे चतुर्लघुकाः प्रायश्चित्तम् / 'एएसि विवजासे चाउम्मासा भवे लहुगा' इतिनिशीथभाष्यवचनात् / अर्थतेषां लेपादीनामुत्तरार्द्धन प्रायश्चित्तं दर्शयति / यथा-लेपे-लेपगमने, लेपोपरि-कुम्भ-तुम्ब-दृतिको-डुपे-लेपोपरिगमने, कुम्भसन्तरणे, दृतिकसन्तरणे तुम्बसन्तरणे, उडुपसन्तरणे, उपलक्षणत्वात् पर्णीभारकसन्तरणे च चतुर्लघुकाः प्रायश्चित्तम् / अत्र च तुम्बशब्दस्य दृतिकशब्दात पूर्व निबन्धो बन्धानुलोम्यात् / नौसन्तरणप्रायश्चित्तं त्वग्रे प्रतिपादयिष्यते / निष्कारणे सङ्घट्टनेन गमने मासलघु प्रथमवारायां, द्वितीयवारायां तु मासगुरु, एवं दशमवारायां पाराश्चिकम् / अथ लेपेन गमने प्रथमवारायां चतुर्लघुकम् / अभीक्ष्णसेवयाऽष्टभिर्वारामिः पाराश्चिकम् / एवं लेपोपरि-कुम्भादिष्वपि चतुर्लघुकम् / अभीक्ष्णसेवयाऽष्टभिर्वाराभिः पाराश्चिकं द्रष्टव्यमित्यादयो निशीथगता अनेकविशेषाः स्वयमवगन्तव्याः / अथ पूर्वदर्शितसक्रमगमने प्रायश्चित्तमाहथिरसंकमेण लहुगो लहुगा निपञ्चवाय-अथिरेण / गुरुगा सपञ्चवाए जले वि इअ लेवमाईहिं // 46 // व्याख्या-स्थिरसक्रमेण-निश्चलललपरिहारमार्गेण गमने लघुको मासः / तेनैव सङक्रमेण निष्प्रत्यपायेन-अपायरहितेन अस्थिरेण-चलेन गमने चत्वारो लघुकाः / तस्मिन्नेव सप्रत्यपाये चत्वारो गुरुकाः प्रायश्चित्तम् / जलेऽपि सप्रत्यपाये लेपादिमिर्गमने इत्येवं चतुर्गुरुकाः / अब यत्र तथाविधकारणे वा तीर्यते, तनाऽयं विधिः

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182