Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 58
________________ अधिकरणकारिणः प्रायश्चित्तम् व्याख्या-अधिक्रियते-नरकगतिगमनयोग्यतां प्राप्यते आत्मा अनेनेत्यधिकरणं-कलहः / साधूनां च तदुत्पत्तिकारणान्यमुनि-अन्यस्याऽऽभाव्यं शैक्षादिकं विपरिणमय्य यदि परः कश्चिदाचार्यों गृह्णाति, ततो मूलाचार्यों ब्रवीति-'किमिति मदीयमाभाव्यं गृह्णासि ?' पूर्वगृहीतं वा शैक्षकादिकं याचितो 'मदीयमाभाव्यं किं न प्रयच्छसि ? ' इति मार्यमाणमपि विप्रतिपत्त्या न ददाति, तदाधिकरणं भवति / एवमपरापरघटमानाऽऽलापकश्लोकादियोजनारूपव्यत्यानेडनया सूत्रं परावर्तयन् , हीनाधिकाक्षरं वा उच्चरन् , स्थापनाकुलानि वा निष्कारणं प्रविशन् , भक्त-स्त्री-देश-राजकथां वा कथयन् साधुद्धितीयेन साधुना नोदितो यदा प्रतिवक्ति प्रद्विष्ट इव तदाऽधिकरणं स्यात् / एवमादिकारणैः समुत्पन्ने चाधिकरणे या साधुर्यस्य साधोः प्रज्ञापनया उपशाम्यति तस्य तेन साधुना उपशमनं कर्त्तव्यम् / यः पुनरुपेक्षां करोति तस्य प्रायश्चित्तम् / तच्चानया गाथया प्रतिपाद्यते / यथा-उपेक्षायां लघुको मासः / अधिकरणं कुर्वतो दृष्ट्वा मध्यस्थभावेन तिष्ठति, अन्येषामप्युपदेशं प्रयच्छति--परप्रत्ययः कर्मबन्धोऽस्माकं न भवति, परकृतस्य कर्मण आत्मनि सङ्क्रमाभावात् / अधिकरणनिवारणेन च स्वाध्यायध्यानादेः स्वार्थस्य भङ्गपातो भवतो भवति / अतो ज्ञानदर्शनचारित्ररूपे पारमार्थिके स्वकार्ये एव यतध्वम् , मा परकार्ये अधिकरणोपशमनादौ स्वार्थपरिमन्थकारित्वात् परार्थकरणस्येत्यादिरूपी उपेक्षा तत्र लघुमासः / उपहसतो-ऽधिकरणं कुर्वतो दृष्ट्वा उपहासवचनानि भाषमाणस्य अट्टहासैरुपहासं कुर्वाणस्य च स एव मासो गुरुकः स्यात् / उत्तदत-उत्-प्राबल्येन तुदतः-प्रेरयतोऽधिकरणे उत्तरदानशिक्षापणमुत्तेजनं च कुर्वाणस्येत्यर्थः। लघका श्चत्वारः / सहायकत्वे सदृशदोषः / द्वयोः कलहायमानयोर्मध्यादेकस्य पक्षे भूत्वा यः कोऽपि वाचा हस्ताभ्यां पद्भ्यां दन्तैर्लगुडादिभिर्वा साहाय्यं करोति, सोऽधिकरणकारिणा सह समानदोषः / ततो यत्प्रायश्चित्तमधिकरणकारिणः स्यात् , साहाय्यकारिणोऽपि तत् स्यात् समानदोषत्वादिति भावः / अधिकरणकारिणस्तु प्रायश्चित्तमिदम्उरो चउगुरु अहवा विसेसिआ हुंति भिक्खुमाईणं / अहवा चउगुरुगाई हवंति उ छेअनिद्ववणा / / व्याख्या-मिक्षुवृषभोपाध्यायाचार्याणामधिकरणं कुर्वतां प्रत्येकं चतुगुरुकं ततश्चत्वारश्चतुर्गुरुका भवन्ति / अथवा त एव चतुर्गुरुकाः तपःकालविशेषिता भवन्ति / तद्यथा-मिक्षोश्चतुर्गुरुकं तपसा, कालेन च लघुकम् / वृषभस्य तदेव कालगुरुकम् / उपाध्यायस्य तपोगुरुकम् / आचार्यस्य तपसा कालेन च गुरुकम् / अथवा चतुर्गुरुकादारभ्य छेदे निष्ठापना कर्तव्या / तद्यथा-भिक्षुरधिकरोति ततस्तस्य चतुर्गुरुकम् / घृषभस्य षड्लघुकम् , उपाध्यायस्य षड्गुरुकम् , आचार्यस्याधिकरणं कुर्वाणस्य छेदः / एवमधिकरणकरणे आदेशत्रयेण प्रायश्चित्तमुक्तम् / तथा साहाय्यकरणेऽपि द्रष्टव्यम् / अधिकरणानुपशमने दोषदर्शनार्थमिदमुदाहरणम्-अरण्णमज्झे एगं अगाहजलं सव्वओ वणसंडमंडिअं महंतं सरं अत्यि। तत्य य बहूणि जलचर-थलचर-खचर-सत्ताणि अच्छंति / तत्थ एगं महल्लं हत्थिजूहं परिवसइ / अनया य गिम्हकाले तं हत्थिजूहं पाणि पाउण्हाउत्तिण्णं मज्झण्हकाले सीअलरुक्खछायाए सुहंसहेणं चिद / तत्थ य अदूरदेसे दो सरडा भंडिउमारद्धा / वणदेवताए अ ते टुं सव्वेसि सभासाए आपोसिअं-भो हस्थिणो ! भो जलयरा ! भो थलयरा ! मा एए सरडे भंडते उवेक्खह वारेह तुम्भ। एवं भणिआ वि ते जलयराइणो चितंति-किं अम्हं एते सरडा भंडता काहिंति ? / तत्थ य एगो सरहो

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182