Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ यति-जीतकल्पे भंडतो भग्गो पिल्लिओ सो धाडिज्जतो सुहपसुत्तस्स एगस्स जूहाहिवस्स बिलं ति काउं नासापुडं पविट्ठो / बिइओ वि तस्स पिटुओ चेव पविट्ठो / ते सिरकपाले जुड़े संपलग्गा / तस्स हथिस्स महती अरई जाया / तओ वेअणट्टो महईए असमाहीए पवट्टमाणो उद्वित्ता तं वणसंडं चूरेइ / बहवे तत्थ वसंता सत्ता घाइआ। जल च आडोहितेण. जलयरा घाइआ। तलागपाली भेइआ / तलागं विणटुं ताहे जलयरा सव्वे विट्ठा। एष दृष्टान्तः। अथ अर्थोपनयः-यथा तेषामुपेक्षमाणानां तत् पद्मसरः सर्वेषामप्याश्रयभूतं विनष्टं, तस्मिँश्च विनश्यमाने तेऽपि विनष्टाः। एवमत्राप्याचार्यादीनामुपेक्षमाणानां महान् दोष उपजायते / यतस्तावधिकरणकारिणावुपेक्षितौ परस्परं मुष्टामुष्टि वा दण्डादण्डि वा युध्येताम् / सतश्च परम्परया राजकुलज्ञाते सञ्जाते सति, स राजादिः तेषां साधूनां बन्धनं वा ग्रामनगरादेर्निष्कासनं वा कटकमदं वा कुर्यात् / किं चान्यत्तावो भेओ अयसो हाणी दंसणचरित्तनाणाणं / साहुपओसो संसारवड्ढणो साहिगरणस्स // 59 / / ___व्याख्या-तापो भेदोऽयशो हानिर्दर्शनज्ञानचारित्राणां तथा साधुप्रद्वेषः संसारवर्द्धनो भवति / एते साधिकरणस्य दोषा भवन्ति / तत्र तापो द्विधा-प्रशस्तोऽप्रशस्तश्च / तत्रातिभणिते सति चिन्तयतिधिग मां येन तदानीं स साधुर्बहुविधैरसभ्याख्यानैरभ्याख्यातः / इत्थमित्थं चाक्रुष्ठः / एष प्रशस्तस्तापः / अथ तथाविधं तस्य संमुखं तदानीं न भणितं, ततश्चिन्तयति-हो ! मन्दभाग्यो विस्मरणशीलोऽहं यन्मया सदीयं जात्यादिमर्मनिकुरम्बं न प्रकाशितम् / एषोऽप्रशस्तस्तोपः / तथा भेदो जीवितभेदश्चरणभेदो वा स्मात् / कलहं कृत्वा पश्चोत्तापतप्तचेतसो विहायसादिमरणमभ्युपगच्छेयुः, उन्निष्क्रमणं वा कुर्युरिति भावः। कलन गणभेदो वा भवति / लोकोऽपि ब्रूयाद्-अहो ! अमीषां श्रमणानां बहिः प्रशान्ताकारं रूपं. यादृशमवलोक्यते तादृशं शीलं मनःप्रणिधानं नास्ति / यद्वा-लजनीयं किमप्यनेन कृतं सम्भाव्यते, येनैवं प्रम्लानवदनो दृश्यते / एवमादिकमयशः समुच्छलति / कलहकरणोत्तरकालमपि कषायकलुषितः पश्चासापतप्तमानसो वा यन्न पठति एषा ज्ञानहानिः / साधुप्रद्वेषतः साधर्मिकवात्सल्यं विराधितं स्यात्ततो दर्शनहानिः / यथा यथा च क्रोधादीनां कषायाणां वृद्धिस्तथा तथा चारित्रस्याऽपि हानिः / विशुद्धसंयमस्थानप्रतिपातेनाविशुद्धसंयमस्थानेषु गमनं स्यादित्यर्थः / एतच्च व्यवहारनयेन, निश्चयनयेन पुनः कषायसहितः संयत एव न भवति चारित्रशून्यत्वात् / 'अकसायं खु चरित्तं कसायसहिओ न संजओ होइ' इति पचनात् / तथा साधूनामुपरि यः प्रद्वेषः तेनाऽसौ संसारं दीर्घतरं करोति / यत एते दोषाः तत उपेक्षा म विधेया किन्तु कलहायमानावुपशमयितव्यो। गुरुभिरुपशमनार्थमित्थमभिधातव्यम्-आर्या ! उपशाम्यतोपशाम्यत / अनुपशान्तानां कुतः संयमः ? कुतो वा स्वाध्यायः ? / तस्मादुपशमं कृत्वा स्वाध्याय कुरुत / किमेवं द्रमकवत् कनकरसस्य शोकपत्रैः परित्यागं कुरुथ ? कः पुनरयं द्रमक ? / उच्यते-जहा एयो परिव्वायगो दमगपुरिसं चिंतासोगसागरावगाढं पासइ पुच्छति अ / किमेवं चिंतापरो 1 तेण से मभावो कहिओ * दारिहामिभूओमि 'त्ति / तेण भणिअं इस्सरं तुमं करोमि / जतो भणामि ततो गच्छाहि, जं च भणामि तं सव्वं कायव्वं / ताहे ते संबलं घित्तुं पव्वयनिगुंज पविद्वा / परिव्वायगेण व भणितो-एस कणगरसो सीयवायातवपरिस्समं अगणंतेहि तिसा-खुधावेअणं सहतेहिं बंभयारीहिं. अचित्तकंदमूलपत्तपुष्फफलाहारीहिं समीपत्तपुडेहिं भावओ अरुस्समाणेहिं चित्तव्यो / एस से उबारो।

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182