Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 55
________________ 41 यति-जीतकरूपे प्रमार्जयति तदा मोसलघु / अथ प्रमार्जयति तदापि मासलघु / अथ प्रमार्जने छेदनकैरग्निविराध्यते ततश्चतुर्लघु / तथा सूत्रपौरुष्यकरणे 1, अर्थपौरुष्यकरणे श, सूत्रनाशे 4, अर्थनाशे धी, तयोः करणे पुनरग्निविराधना / सज्योतिर्वसतौ रागे चतुर्गुरु / द्वषे चतुर्लघु / आवश्यके च यावत उत्सर्गान करोति तावन्तो मासाः / सर्वं वाऽऽवश्यकं न करोति चतुर्लघु / अथ करोति ततो यावन्त उत्सर्गास्तावन्तश्चतुर्लघुकाः / सर्वस्मिन्नप्यावश्यके कृते चतुर्लघुकमेव / यति वन्दनानि स्तुतीर्वा न ददाति, तति'लघुमासाः / अथ ददाति तदा तदेव मासलघु / सन्दंशकयोः प्रमार्जनेऽप्रमार्जनेऽपि लघुमासः / आवश्यकीनषेधिक्योः करणे पञ्चकमसामाचारीनिष्पन्नं वो, अकरणे तु प्रत्येकं पञ्चकम् / 'आसज्जे'त्यभणने मासलघु / भणने चाग्निनिष्पन्नं / साग्निवसतौ प्रस्खलने पठने वा चतुर्लघु षड्जीवनिकाय विराधनानिष्पन्न च / अतस्तथाविधकारणैः साग्निवसताववस्थाने यतनेयं क्रियते-कटं चिलिमिणिकां वाऽन्तरा दत्त्वा प्रतिलेखनादीनि कुर्वन्ति, तदभावे बहिः कुर्वन्ति / बहिः स्थानाभावे चावश्यकं स्तुतिवन्दनकहीनं मौनेन यतनया वर्षाकल्पप्रावृताः कुर्वन्ति / गमनागमने च प्रमार्जनावश्यकीनैषेधिकीन कुर्वन्ति इत्यादि तेजःकायविषया यतना तत एवावसेया, ग्लानादिकार्यविषयाऽपि च / वायुकायविराधनायां पुनरेवं प्रायश्चित्तं-धर्माभिभूतो निलयाऽभ्यन्तराद् बहिर्निर्गच्छति, अनिलाऽमिधारणनिमित्तं वा बहिः स्थितः शब्दयति, यथा-एहि एहि इतः शीतलो वायुरिति / पूर्वकृतछिद्रेषु वायु प्रतिसेवते / अपूर्वाणि वा छिद्राणि वाताऽभिधारणनिमित्तं करोति / धर्मातः स्वाङ्गं फूत्करोति / उष्णं वा भक्तपानं फूत्करोति / पूर्वकृतं द्वारं कपाटं वोद्घाटयति / अपूर्व वा द्वारमुद्घाटयति / उच्छाडं वाऽपसारयति / गृहछिंडिकायां वा याति / वस्त्रं वा चतुरस्रं कृत्वा वायुं करोति / तालवृन्त-वस्त्राश्चलपत्र-मात्रक-हस्तादिभिर्वायुं करोति / हस्तशङ्ख शङ्खदृतिकादि वा वायुना पूरयति / क्षुतकासितोच्छ्वसितनिःश्वसितानि वा अविधिना करोति / तत्र निर्गमन-फूत्करण-हस्त-मात्रक-पत्र-वनाञ्चलवायुकरणेषु मासलघु प्रायश्चित्तम् / अभीक्ष्णासेवायां च दशवाराभिः पाराश्चिकम् / शेषेषु पदेषु चतुर्लघु, अभीक्ष्णासेवायां चाष्टवाराभिः पाराश्चिकम् / क्षुतादिषु पुनः पञ्चकम् / अभीक्ष्णासेवायां चतुर्विशतिवाराभिः पाराश्चिकं / छिद्राणि पुनर्यावन्ति करोति तावन्तो लघुमासाः यावत् त्रीणि / ततः परं चतुर्लघु स्यात् / पूर्वकृतछिद्रेष्वेवं प्रायश्चित्तम् / ननु वाताभिधोरणादिषु कथं प्रायश्चित्तापत्तिः स्यात् 1 उच्यतेवायुकायजीवविराधनासीवात् / यदुक्तं'वाससिसिरेसु वाओ बहिआ सीओ गिहेसु तु सउण्हो / विवरीओ पुण गिम्हे दिअराई सत्थमन्नुन्नं / / एमेव देहवाओ बाहिरवायस्स होइ सत्थं तु / विअणादिसमुत्थो वि अ सउप्पत्ती सत्थमन्नस्स' // 'सउप्पत्ती 'ति / स्वेन स्वेन विधानेनोत्पन्न इति / एवमन्यदप्येतद्विराधनाविषयं प्रायश्चित्तं प्रकल्पतोऽवसेयम् इति / पृथिवीकायायेकेन्द्रियविराधनाविषयं प्रायश्चित्तमुक्तम् / सम्प्रति विकलेन्द्रियादिविराधनागोचरं तदाहविमलाण घट्टणाइसु लहुगुरुचउलहु अ चउगुरू हुंति / गुरुगाइ छल्लहुंत पंचिंदिअघट्टणाईसु // 51 // व्याख्या-विकलानां-विकलेन्द्रियाणां द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियाणामित्यर्थः। घटनादिषुसङ्घट्टना-ऽगाढ़परिताप-गाढ़परितापो-पद्रवणेषु यथासङ्ख्यं लघुगुरुचतुर्लघुचतुर्गुरुका भवन्ति / विकले

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182