Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ यति-जीतकल्पे साधुरेकः परेणोक्तः क ? त्वं मिक्षामटिष्यसि / पूर्वस्यामिति तेनोक्तः पृच्छकः पश्चिमां गतः // 30 // सोऽपि तत्राऽऽगतः पृष्टः किं न वागऽनुगा क्रिया ? / सोऽवादीत् किं न पूर्वैषाऽपरग्रामव्यपेक्षया ? | भिक्षाचर्याप्रवृत्तेनाऽऽहूतः केनाऽपि कोऽप्यषिः / जगाद त्वं व्रजैकस्मिन्नेव गच्छाम्यहं कुले // 32 // सोऽप्यथाऽनेकगेहेषु पृष्टोऽहस्तेन गीतवान् / समकालमनेकेषु किं गच्छन्नस्मि वेश्मसु ? // 33 / / 14, यामो भिक्षार्थमागच्छे-त्युक्तोऽन्योऽन्येन साधुना / वक्ति स्म त्वं व्रज द्रव्य-मेकमेवाहमाददे // 34 // ततो बहूनि द्रव्याणि गृह्णन् पृष्ठोऽवदत् स तान् / तत् पुद्गलाऽस्तिकायाख्य-मेकमेवाखिलः परैः॥३५॥१५, एते पञ्चदश लघुकमृषादृष्टान्ताः / लघुकाऽदत्तं पुनरननुज्ञापिततृणलेष्टुक्षारमल्लकलेपाऽल्पकालिकवृक्षादिछायाविश्रामणादिविषयम् / लघुकमूर्छा सूक्ष्मममत्वरूपा / सा च द्रव्य-क्षेत्र-काल-भावभेदाचतुर्दा / तत्र द्रव्यतः शय्यातरगृहादौ काकश्वानगवाद्युपद्रवं लघुकल्पस्थकादिकं च रक्षति / क्षेत्रतः प्रतिक्रमणसंस्तारकादिस्थानकुलवसतिग्रामनगरराज्यादिषु / कालतो मासकल्पोपरि निवासादौ / भावतोऽल्परागाद्यध्यवसायात्मिका / इह च यत्र यत्र पञ्चकादिलघुमासान्ताऽऽपत्तिस्तत् सर्व लघुमृषादत्तमूर्छारूपं प्रतिक्रमणाईस्थानमध्ये गृह्यते / तथाअविहीइ कासर्जिमिअ-खुअवायासंकिलिकम्मेसु / कंदप्पहासविगहाकसायविषयाणुसंगेसु // व्याख्या- कासजृम्भितक्षुतवाताऽसक्लिष्टकर्मसु / इतरेतरद्वन्द्वः / कासजृम्भितक्षुतानि प्रतीतानि / वातो द्विधा-ऊर्ध्ववात उद्गाररूपः, अधोवातस्तु अपानजः / तत्र कासजृम्भितक्षुतोद्गारा मुखे मुखवस्त्रिका हस्तं वा दत्त्वा विधेयाः / अधोवातनिर्गमे च करेणैकपुतावकर्षणं कार्य येन महान् कुत्सितशब्दो न भवति / अन्यथा त्वविधिः / असक्लिष्टकर्म पुनः-सङ्क्लेशः कर्मबन्धस्तस्य यन्न कारणं तदसङक्लिष्टकर्म छेदनभेदनघर्षणपीडनाभिघातसिञ्चनकायक्षाराद्यनेकविधम् / छेदनं कुष्ठादिशरीरविक्रियायां दुष्टाङ्गस्य / भेदनं दुष्टवणस्य, घर्षणं दन्तादेः, पीडनं-पीडयित्वा शिरामोक्षणा दिना रुधिरस्य निष्कासनम् , अभिघातसेचनं अभिघातो-लगुडादिप्रहारस्तस्योष्णजलादिना सेचनम् , कायक्षारः प्रसूत्यादौ काये क्षाराभियोजनम् / एष्वविधिना कृतेषु / कन्दर्पो वाचिको नर्माऽऽलापादिरूपः, कायिको धावनादि, हासविकथाकपायविषयाः प्रतीताः / तेषामनुषङ्ग-आसेवनं तेषु / तथाखलिअस्स य सव्वत्थ वि हिंसमणावज्जओ जयंतस्स / सहसाणाभोगेण व मिच्छाकारो पडिक्कमणं / / व्याख्या-एकं पूर्वगाथाद्वयोक्तातिचारस्थानेषु, अन्यत् सहसत्ति / सहसाकारो-ऽविमृश्यकरणं, तथा 'पुव्वं अपासिऊणं छुढे पाए कुलिंगि जं पासे / न य तरइ निअत्तेउं जोगं सहसाकरणमेअं'। अनांभोगो-अत्यन्तं विस्मृतिः। ताभ्यां-सहसाकारानाभोगाभ्यां स्खलितस्य च-अतिचारयोग्यतां प्राप्तस्य च सर्वत्रापि-दर्शनज्ञानचारित्रतपःप्रभृतिचतुर्विशतिपदेष्वपि यतमानम्य हिंसामनापद्यमानस्य-अविराधितजीवस्य मिथ्याकारो-मिथ्यादुष्कृतदानं प्रतिक्रमणं-प्रतिक्रमणाईप्रायश्चित्तं शुद्धिकृद् भवति / तथाआभोगेण वि तणुएसु नेहमयसोगबाउसाईसु / कंदप्पहासविगहाइएसु नेअं पडिक्कमणं // 12 //

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182