Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ यति-जीतकल्पे प्राप्तेषणीयेन चतुर्थवेलायामनेषणीयं ग्राह्यमित्येवं व्यापारमकृत्वैव प्रथमद्वित्रिवेलास्वप्यमेषणीयं गृह्णाति स तथा / 8 / निरनुतापी-अपश्चात्तापी, यः साधुरपवादेनापि पृथिव्यादीनां सङ्घट्टनपरितापनोपद्रवान् कृत्वा नानुतप्यते / यथा हा ! मया दुष्ठु कृतमिति / यस्तु दर्पणाप्यासेव्य नानुतप्यते किं तस्य उच्यते / / 9 / निश्शङ्को-निरपेक्षः, अकार्यं कुर्वन् कस्याप्योचार्यादेर्नाऽऽशङ्कते नेहलोकस्यापि बिभेतीत्यर्थः / 10 / एषा दपिका प्रथमा प्रतिसेवना / द्वितीया कल्पिका प्रतिसेवना चतुर्विशतिधा / तद्यथा 'दसणनाणचरित्ते तव-पवयण-समिइ-गुत्तिहेउं वा / साहम्मिअवच्छल्ल-तणेण कुलओ गणस्सावि // 1 // संघस्सायरिअस्स य असहस्स गिलाण बालवुड्ढस्स / उदयग्गिचोरसावय भयकंतारावई वसणे . // 2 // ‘दसण 'त्ति / दर्शनप्रभावकानि प्रमाणशास्त्राणि प्रमेयरत्नकोशादीनि गृह्णन्नसंस्तरे अकल्प्यमपि यतनया प्रतिसेवमानः शुद्धोऽप्रायश्चित्त इत्यर्थः / 1 / 'नाण 'त्ति / ज्ञाननिमित्तं सूत्रमर्थं वाऽधीयन्नसंस्तरे अकल्याऽऽसेव्यपि शुद्धः / 3 / ' चरित्ते त्ति / यत्र क्षेत्र एषणादोषः स्त्रीदोषो वा ततः क्षेत्राचारित्रार्थिना निर्गन्तव्यं, निर्गच्छंश्चाक्षमत्वादकल्प्याऽऽसेव्यपि शुद्धः / 3 / 'तवे 'त्ति / तपः करिष्यामीति घृतादि पिबेत् , कृते वा विकृष्टतपसि मासक्षपणादौ पारणके लाजातरणादि पिबेत्, तीर्यत इवास्यामतिस्वच्छतयेत्यधिकरणे अनटि तरणं लाजा-भृष्टा ब्रीहयस्तैर्निवृत्तं तरणं लाजातरणम् उपचारात् पेयाऽभिधीयते तां पिबेत् / यद्वा-आधाकर्मादि तस्मै दद्यात् माऽन्येन शीतान्नादिना रोगोऽभूत, शकंराऽऽमलकादयो वाऽस्य यतनया पारणके दीयन्ते, परं शुद्धः / 4 / 'पवयण 'त्ति / प्रवचनार्थ किञ्चित् प्रतिसेवमानः शुद्धः / यथा कोऽपि राजादिर्भणेत् मम विषयान्निर्गच्छतेति / ततस्तद्दण्डार्थमुपक्रमते / यथा विष्णुकुमारमुनिना लक्षयोजनप्रमाणं शरीरं कृतं लवणोदधिश्चलनाभ्यामालोडितः / 5 / 'समिइ 'त्ति / समितिहेतोः ईर्यासमितिर्न शुद्धथतीति चक्षुनिमित्तं वैद्योपदेशादौषधादिपानं कुर्यात् / कथमपि चित्तव्याक्षेपादिसम्भवे मा भाषासमितावसमितो भूवमिति तत्प्रशमनार्थमौषधादि पिबेत् / एषणासमित्यै कदाचिदसंस्तरेऽनेषणीयमपि गृह्णीयात् / एषणादोषेषु वा शङ्कितादिषु सत्स्वसंस्तरे गृह्णीयात् / दीर्घाऽध्वप्रतिपत्तौ वाऽध्वकल्पं प्रतिसेवेत् / अयं भावार्थः-सम्प्रत्यल्पदोषमिदमनाददानः पश्चाद् ग्लानत्वादिभावे माऽऽधाकर्मादि बादरमनेषणीयं ग्रहीषम् / आदाननिक्षेपसमित्यै कश्चित् कम्पवातादिना कम्पमानकरोऽन्यत्र प्रमार्जयत्यन्यत्र वस्तु निक्षिपत्यतस्तत्प्रशमनार्थमौषधादि विदध्यात् / पारिष्ठापनिकासमित्यै स्थण्डिलाभावे कायिकी संज्ञा वा कदाचिदक्षमतया पृथिव्यादीन् विराधयन्नपि कुर्वीत, मा ममेदानी कायिक्याद्याबाधया मृत्युर्भूत् / जीवन् पुनरिमां समितिं यथावस्थितां पालयिष्यामीति / 6 / 'गुत्तिहेउं वा' गुप्तिहेतोः कदाचिद् विषमातङ्कादौ अनन्यौषधसाध्ये वैद्योपदिष्ठं विकटं स्वल्पमेवाऽऽसेवते / माऽहं वैकल्यान् मनोवाकायैरगुप्तो भूवमिति / 7 / साधर्मिकवात्सल्यमाश्रित्य किञ्चिदकल्प्यं प्रतिसेवेत / यथा आर्यवैरिस्वामिभिरशिखाकमुण्डः पटेऽधिरोप्य दुर्भिक्षानिस्तारितः / न चैतत्कत्तुं कल्पते साधूनां / यदुक्तं 'तहेवाऽसंजयं धीरो आस एहि करेहि वा / सयं चिट्ठ वयाहित्ति मेवं भासिज्ज पण्णव // ' मिति / 8 / कुलगणसङ्गकार्येषु समुत्पन्नेषु वशीकरणोच्चाटनाभिचारादीनि राजादिकमुद्दिश्य प्रयुक्ते, चूर्णयोगादीन् वा करोति / 11 / आचार्या-ऽसहिष्णु-ग्लोन-बाल-वृद्धादीनां च येन समाधिर्भवति तत्कार्यम् / तत्र राजयुवराजाऽमात्यप्रेष्ठिपुरोहिता असहिष्णवः पुरुषा भण्यन्ते / एते हि अन्तप्रान्त

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 182