Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ 3 दपिका-प्रतिसेवना वयछक्कं कायछक्कं अकप्पो गिहिभायणं / पलिअंक निसिज्जा य सिणाणं सोहवज्जणं'। बतषटकप्राणातिपातविरत्यादिमहाव्रतपञ्चकं रात्रिभोजनविरतिषष्ठम् / कायषट्कं-पृथिव्यादयः पड् जीवनिकायाः। षट्कद्वयेन मूलगुणा उक्ताः / एतद्देतिकल्पाश्चाऽकल्पादयः षडुत्तरगुणाः / तत्राऽकल्पो द्विविधः-शिक्षकस्थापनाकल्पोऽकल्पस्थापनाकल्पश्च / तत्राऽऽद्योऽनधीतपिण्डनियुक्त्यादिशास्त्रसाधुना समानीतमाहारादि साधुभ्यो न कल्पते / उक्तं च___'अणहीआ खलु जेणं पिंडेसणसिज्जवत्थपाएसो। तेणाणिआणि जइणो कप्पंति न पिंडमाईणि॥१॥ उउबलुमि अनला वासावासे उ दोवि नो सेहा / दिक्खिज्जती पायं (सेह) ठवणाकप्पो इमो होई' / / 2 / / आद्या गतार्था / द्वितीयस्याश्चायमर्थः-ऋतुबद्धे-शीतोष्णकालमासाष्टके अनला-अयोग्या नपुंसकादयो न दीक्षार्हाः / वर्षाकाले तु 'दोवि 'त्ति / द्वावपि-योग्याऽयोग्यौ शैक्षौ न कार्याविति शेषः / शिक्षकस्थापनाकल्पाख्योऽकल्पः। द्वितीयश्वाऽनेषणीयपिण्डशय्यावस्त्रपात्रलक्षणोऽकल्प उद्गमादिद्विचत्वारिंशद्दोषरहितस्यैव कल्पनीयत्वात् / 1 / गृहिभाजनं-गृहस्थसम्बन्धि स्थोलतलिकादिकमकल्पम् / 2 / 'पलिअंक 'त्ति / ओसन्दकशय्यामश्चकादावुपवेष्टुं स्वप्तुं वा दुष्प्रतिलेख्यत्वात् साधूनां न कल्पते / 3 / ' निसिज्ज 'त्ति / भिक्षार्थं गृहप्रविष्टस्य साधोरुत्सर्गतस्तत्र निषदनं न कल्पते / अपवोदतः पुनः कस्यचित् कल्पते / यदुक्तं श्रीशय्यंभवमित्रैः 'तिण्हमन्नयरागस्स निसिज्जा जस्स कप्पई / जराए अभिभूअस्स वाहिअस्स तवस्सिणो'॥१॥ एते च भिक्षाटनं न कार्यन्त एव परमात्मलब्ध्यपेक्षया-सूत्रे त्रयस्योपवेशनमुक्तम् / 4 / स्नानम्-अङ्गप्रक्षालनं, सर्वतो देशतोऽप्यकल्पं / 5 / शोभावर्जनं-नखकेशसंस्कारादि-विभूषात्यागः / 6 / इत्यष्टादशस्थानलक्षणं प्रतिसेवनीयम् / प्रतिसेवना च द्विधा-दर्पिका कल्पिका च / आकुट्टि-प्रमादसेवने च सत्यावपि न विवक्षिते / दर्पाकल्पसाध्यत्वादाकुट्टेः / प्रमादस्यापि दर्पजन्यत्वादनयोर्दपिकाख्यायामाद्यप्रतिसेवनायामेवान्तर्भावः / सा चाद्या दशधा, तद्यथा 'दप्प-अकप्प-निरालंब चिअत्ते अप्पसत्थ-वीसत्थे / अपरिच्छिअ कडजोगी निरणुत्तावी अनिस्संके' // 1 // तत्र दो-धावनडेपनादिः / धावनं-निष्कारणमतित्वरितमविश्राम गमनम् / डेपनं-गर्त्तवरण्डादीनां रयेणोल्लङ्घनम् / आदिशब्दान्मल्लवद् बाहुयुद्धकरणलगुडभ्रमणादिग्रहः / 1 / अकल्पःपृथिव्यादिकायानामपरिणतानां ग्रहणम्-उदकाई-सस्निग्धसरजस्काभ्यां हस्तमात्रकाभ्यामादानम् / अगीतार्थोत्पादिताहारोपधिपरिभोगः / पञ्चकादि-प्रायश्चित्तयोग्यमपवादविधिं त्यक्त्वा गुरुतरदोषसेवनं चेति / 2 / निरालम्बो-ज्ञानाद्यालम्बनं विनाऽपि निष्कारणमकल्पिकासेवनं, यद्वा-अमुकेनाऽऽचरितमतोऽहमप्याचरामीति / 3 / 'चिअत्ते 'ति / त्यक्तकृत्यः-त्यक्तचारित्रः, अपवादेनाऽसंस्तरे ग्लानोदिकारणे वा यदकल्प्यमासेवितं पुनस्तदेव संस्तरेऽपि निवृत्तरोगोऽप्यासेवते / 4 / अप्रशस्तोऽप्रशस्तेन भावेन बलवर्णाद्यर्थ प्रासुकमपि भुञ्जानः किं पुनरविशुद्धमाधाकर्मादि / 5 / विश्वस्तः-प्राणातिपाताद्यकृत्यं सेवमानः स्वपक्षात् श्रावकादेः परपक्षान्मिथ्यादृष्टयादेन बिभेति / 6 / 'अपरिच्छिअ'त्ति / अपरीक्षक-उत्सर्गापवादयोरायव्ययोवनालोच्य यः प्रतिसेवते / 7 / अकृतयोगी-ग्लानादिकार्ये गृहेषु त्रिःपर्यटनरूपं योगव्यापारमकृत्वैव योऽनेषणीयमासेवते / यथा असंस्तरादौ त्रीन् वारानेषणीयार्थ पर्यटिताशेषगृहेणाप्य

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 182