________________ 2.46. ]अदृश्यानां विरोधादेरसिद्धिः / 145 / बहुषु चोयेषु प्रक्रान्तेषु परिहारसमुच्चयार्थश्चकारो हेत्वर्थो भवति / यस्मादिवं चेदं च समाधानमस्ति तस्मात् तत्तच्चोद्यमयुक्तमिति चकारार्थः॥ कस्मात् पुनः प्रतिषेध्यानां विरुद्धादीनामुपलब्ध्यनुपलब्धी वेदितव्ये इत्याह अन्येषां विरोधकार्यकारणभावाभावासिद्धेः // 46 // अन्येषामिति / उपलब्ध्यनुपलब्धिमद्धयोऽन्येऽनुपलब्धा एव ये तेषां विरोधश्च कायकारणभावश्च केनचित्सहाभावश्च व्याप्यस्य' व्यापकस्याभावे न सिध्यति यस्मात् ततो विरोध कार्यकारणभावाभावासिद्धेः कारणाद् उपलब्ध्यनुपलब्धिमन्त एव विरुद्धादयो निषेध्याः। उभयवन्तश्च दृश्या एव। तस्माद् दृश्यानामेव प्रतिषेधः। तवयमर्थः / विरोधश्च' कार्यकारणभावश्च व्यापकाभावे व्याप्याभावश्च दृश्यानुपलब्धेरेवेति / एकसंनिधावपराभावप्रतीतौ ज्ञातो विरोधः। कारणाभिमताभावे च कार्याभिमताभावप्रत्ययेऽवसितः कार्यकारणभावः। व्यापकाभिमताभावे च व्याप्याभि अन्ये पुन रन्यथा व्यवस्थिताः-स्वयमपीत्यादिकं नाविर्भूतप्रयोगमधिकृत्योक्तम् , किन्त्वन्तजल्पाकारप्रवृत्तं स्वप्रतिपत्तिकालभा[56a] विनमिति / अत्र च साध्वंसाधु वा व्याख्यानं साधुभिरेव ज्ञातव्यमिति / स्यादेतत्-यथा प्रयोगभेदः स्वार्थानुमाने कथ्यते तथा च न किञ्चिद् वाच्यं परार्थानमाने स्यादित्याशडक्याह-यत्पुनरिति / परप्रतिपत्तावेव, न तु स्वप्रतिपत्तावपीत्यवधारणार्थः॥ सम्प्रति दृश्यानुपलब्धावन्तर्भावं सर्वानुपलब्धीनामसहमान आह-ननु चेति / तथा च सति कारणादीनामदृश्यानां निषेधप्रकारे सति / शिष्टेषु परिशिष्टेषु अभाव इत्यभावोपीति द्रष्टव्यम् / न त्वभाव एव, व्यवहारस्यापि साधनात्। . कारणा[य]नुपलब्ध्या च करणभूतया। कार्यकारणभावादिग्रहणकाले योपलब्धिरनुपलब्धिश्च पूर्वमासीत् तद्वतां प्रतिषेधः क्रियमाणो दृश्यानामेव कृतो द्रष्टव्यो ज्ञातव्यः। यथा अर्थविरोधादिग्रहणकालेऽवश्यंभाविनी दृश्यानुपलब्धिस्तथाऽनन्तरमेव धर्मोत्तरेण प्रसाधयिष्यते / ननु च कारणादीनां चेत्यनेन प्र(च)कारेणावश्यं समुच्चयार्थेन भाव्यम्, तत्कथं हेत्वर्थे व्याख्यायत इत्याशङक्य पूर्वं बुद्धिस्थं स्पष्टयन्नाह-बहुष्विति / एवम्मन्यते-समुच्चयार्थे वर्तमान एवायं हेत्वर्थे वर्तते। न त्वेवं समुच्चयार्थी निराक्रियते, हेतूनां परस्परसमुच्चयस्य प्रतीयमानत्वात् / तथा सन हेत्वों भवति / इतिरेवं चकारस्यार्थः प्रयोजनम् // १०कारणभावासिद्धेः E. कारणभावासिद्धि: B. P. H. 3 व्याप्यस्येति व्याप्यरूपाणामिति व्याख्येयम् / बहस्थानेषु पाठोऽपि न—टि. . व्यापकाभावे C. 4 विरोधिकार्य A. B. P. E. H. N. 5 विरोधः कार्य० A. P. H. E. - 6 ०संनिधाने परा० C. ..वसितकार्य P. H. A. B. 8 व्याप्याभावे A. B. D. P. H. E. N.