Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 282
________________ . विरोधनिरूपणम् / 207 रूपं तदपि दृश्यं व्यवच्छिद्यते। ततः स्वप्रच्यतिवत् प्रच्युतिमन्तोऽपि व्यवच्छिन्ना इति ये परस्परपरिहारस्थितरूपा: सर्वे तेऽनेन निषिद्धकत्वा इति / सत्यपि चास्मिन् विरोधे सहावस्थानं स्यादपि / ततो भिन्नव्यापारी विरोधौ। एकेन विरोधेन शीतोष्णस्पर्शयोरेकत्वं वार्यते। अन्येन सहावस्थानम्। भिन्नविषयौ' च / सकले वस्तुन्यवस्तुनि च परस्परपरिहारविरोधः / वस्तुन्येव कतिपये सहानवस्थानविरोधः। तस्माद्धिन्नव्यापारौ भिन्नविषयौ च। ततो नानयोरन्योन्यान्तर्भाव इति // स च द्विविधोऽपि विरोधो वक्तृत्वसर्वज्ञत्वयोर्न संभवति // 76 // निषेधात् / आधेयनिषेधे ह्ययं न्यायो न तु दृश्यमानात्मतानिषेध इति / सत्यमेतत् / केवलमत्यन्तमूढं प्रत्येतदुक्तमित्यदोषः / किमेवं सति सिद्धमित्याह-तथा च सति ऐकात्म्यनिषेधे सर्वस्य दृश्यात्मतया निषेधप्रकारे सति / तदभावस्तस्य परिच्छिद्यमानस्य स्वरूपस्य नीलादेरभावस्तदभावो दृश्यो दृश्यात्म[71b]क: सन् व्यवच्छिद्यते तादात्म्येन निषिध्यते / अयं दृश्यमानो नीलो नाभावः तुच्छरूपेण अभावरूपेणाप्रतिभासनादिति कृत्वा दृश्यमानरूपात्मतया निषेधादिति भाषः। भवतु परिच्छिद्यमानाऽभावस्य दृश्यस्य व्यवच्छेदस्तदव्यभिचारिणस्तु निषेधे का वातत्याह-यच्चेति / अपिशब्दार्थश्चकारः। तदभावो विद्यतेऽस्येति तथा / यदि तदभाववांस्तादात्म्येन प्रतिषिध्यते तहि क्षणिकत्वमपि पूर्वोक्तेन न्यायेन नीलाभाववदिति तदपि तादात्म्यतया व्यवच्छेद्यं रयादित्याह-नियताकारमिति / एतच्च पूर्वमेव कृतव्याख्यानम् / यतो द्वयोरप्यभावतद्वतोदृश्यमानात्मतया निषेधाद् दृश्ययोरेव निषेधस्ततस्तस्मात्स्वप्रच्युतिरिव स्वाभाव इव व्यवच्छिन्ना निषिद्धतादात्म्याः / इतिस्तस्मात् / सर्वग्रहणं कात्स्न्यं प्रतिपादनार्थम् / अनेनेति विरोधेन निषिद्धमेकत्वं येषामिति विग्रहः / विरोधे परस्परपरिहारस्थितात्मलक्षणे सहकत्र लोकप्रतीतिसिद्धे देशेऽवस्थान स्थितिः स्यात् / अपिः सम्भावनायाम् / यस्मादनेन विरोधेन नैकत्रावस्थानं निषिद्धयते किन्त्वेकात्मकत्वम्। पूर्वेण चैकत्रावस्थानं न त्वेकात्मकत्वम् / ततः कारणाद् भिन्नौ नानाभूतौ व्यापारौ ययोस्तौ तथोक्तौ / भिन्नव्यापारत्वमेवानयोरेकेत्यादिना स्फुटयति / न केवलं व्यापारभेदादनयोर्भेदेनोपन्यासः / किन्तु विषयभेदादपीत्याह-भिन्नविषयौ चेति / न केवलं भिन्नव्यापारौ भिन्नविषयावपीत्यपिशब्दार्थश्चकारः। भिन्नविषयत्वमेव दर्शयन्नाह-सकल इति / / भवतक्तलक्षणो द्विविध एव विरोधः / तथाप्यनयोरन्यतर एव विरोधो वक्तृत्वसर्वज्ञत्वयोर्भविष्यतीत्याह-स चेति / चो यस्मात्सोऽयमनन्तरोक्तो द्विविधो नास्ति / अपिरतिशये। 1 भिन्नप्रवृत्तिविषयौ A. P. H. N. 2 सहावस्थान० B.C.

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380