Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 274 टिप्पणानि / 203. 7. सू०७५-"अन्योन्योपलब्धिपरिहारेण स्थितिलक्षणता वा विरोधो नित्यानित्यवद् / " प्र० स्वो० पृ० 36. , 207. 8. सू० ७६-"उक्त्यादेः सर्ववित्प्रेत्यभावादिप्रतिषेधवत् / अतीन्द्रियाणा- . मर्थानां विरोधस्याप्रसिद्धितः // " प्रमाणवा० 2. 92. 209. 8. सू० 78. "न हि चलनवचनादि रागादिकार्यम्, वक्तुकामताहेतुकत्वात् / सैव राग इति चेत् / इष्टत्वात् न किञ्चित् बाधितम् / रागं हि नित्यसुखात्मात्मीयदर्शनाभिनिवेशाक्षिप्तं सास्रवधर्मविषयमाहुः / नैवं करुणादयः। अन्यथापि संभवात्- इति निवेदयिष्यामः / यथा रक्तो ब्रवीति तथा विरक्तोपि / एवं न वचनमात्रात् नापि विशेषात् प्रतिपत्तिः / अभिप्रायस्य दुर्बोधत्वात् / व्यवहारसंकरेण सर्वेषां व्यभिचारात् / प्रयोजनाभावेऽवचनमिति चेत् / न। परार्थत्वात् व्यवहारस्य / न युक्तो वीतरागत्वादिति चेत् / न। करुणयापि प्रवृत्तेः। सैव करुणा राग इति चेत् / इष्टम् / अविपर्यासोद्भवत्वाद् अदोष: करुणा असत्यात्मग्रहणे दुःखविशेषदर्शनमात्रेण अभ्यासबलोत्पादिता / तथा हि मैत्र्यादयः सत्त्वधर्मालम्बना इष्यन्ते / एताश्च सजातीयाभ्यासवृत्तयो न रागापेक्षिण्यः / नैवं रागादयः, विपर्यासाभावेऽभावात् / कारुणिकस्य निष्फल आरम्भोऽविपर्यासादिति चेत् / न। परार्थस्यैव फलत्वेनेष्टत्वात् / सर्वथाऽभूतासमारोपात निर्दोषः। तदन्येन वीतरागस्य दोषवत्त्वसाधने न किञ्चिदनिष्टम् / वक्तर्यात्मनि रागादिदर्शनाद्-अन्यत्र तदनुमाने हि अतिप्रसंगः / व्यभिचारादनन्यानुमाने इहाव्यभिचार इति को निश्चयः ?"-प्र० स्वो पृ० 51. 211. 12. सू० 86. "अनन्वयोपि दृष्टान्ते दोषस्तस्य यथोदितम् / आत्मा परश्चेत् सोऽसिद्ध इति तत्रेष्टघातवत् / / " प्रमाणवा० 4. ३२;"यथोदितमाचार्यवसुबन्धुना–पराश्चिक्षुरादय इत्यत्र परश्चेदात्मा विवक्षितः सोऽसिद्धो दृष्टान्त इति / तत्रान्वये सति इष्टविधातवत् साधनम्, इष्टात्मार्थत्वविपर्ययेणान्वयात् तत्साधकत्वात् ।”—मनो० 4. 32. 214. 8. सू० 95 “अनिश्चयकरं प्रोक्तमीदृक् त्वनुपलम्भनम् / तन्नात्यन्तपरोक्षेषु सदसत्ताविनिश्चयौ ॥"-प्रमाणवा० 2. 94; "अयमेवं न वेत्यन्यदोषानिर्दोषतापि वा। दुर्लभत्वात् प्रमाणानां दुर्बोधेत्यपरे विदुः ॥"-प्रमाणवा० 3.219. 214. 16. सू० ९७-"प्राणाद्यभावो नैरात्म्यव्यापीति विनिवर्तने / आत्मनो विनिवर्तेत प्राणादिर्यदि तच्च न // " प्रमाणवा० 4. 208 228. 8. 'पैलकेन'-"पैलकेनेति वैशेषिकेण किलायं पाक: मन्यते अतः पीलक उक्तः / " तात्पर्य० पृ० 127 231. 6. 'पैठर' “पैठर इति नैयायिकः / तन्मतेन स्थाल्या एव पाकसंभवात तथैवाख्यातम् // " तात्पर्य० पृ० 128 239. 7. 'दृष्टान्तदोषाः' -न्यायप्र० पु. 5 254. 2 सू० १३७-१३८-"असाधनाङ्गवचनमदोषोद्भावनं द्वयोः। निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते ॥"-वादन्याय पृ० 2 / न्याय० ता० 5. 2. 1. पृ० 492, न्यायमं० पृ० 639; प्रमाणमी० 2. 1. 35, प्रमेयक० पू० 671.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/63e4f5473162c56ba5ec90d97322ee9a7435adddaafc79a82e90ec5ce33deaf2.jpg)
Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380