Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ टिप्पणानि / 267 74. 2. सू० 13. "यथोक्तविपरीतं यत् तत् स्वलक्षणमिष्यते / " प्रमाणवा०२. 51; "इदं च वैपरीत्यम्-अनभिधेयत्वम्, तत्त्वान्यत्वाभ्यां वाच्यत्वम्, असदर्थप्रत्ययाविशिष्टप्रतिभा सविषयत्वम्, असाधारणत्वम्, संकेतस्मरणानपेक्षप्रतिपत्तिकत्वम्, अन्यरूपविविक्तस्वरूपप्रतिभासवत्त्वम्, अर्थक्रियाक्षमत्वं च ।"-मनो० 1. 51; "बुद्धिर्यत्रार्थसामर्थ्यादन्वयव्यतिरेकिणी। तस्य स्वतन्त्र ग्रहणमतोऽन्यद् वस्त्वतीन्द्रियम् // " प्रमाणवा० 2. 59. 74. 17 'अन्यराख्यातम्'– “सर्वेण रूपेण वस्तुनोऽभावोऽसन्निधानमिति-अन्यव्याख्या अपास्ता।" "यत् पुनर्योग्यदेशे भावाभावाभ्याम् इति शान्तभद्रव्याख्यानं तद्भद्रकमेव।"तात्पर्य० पृ० 35 75. 3. सू० 14-15 “अर्थक्रियासमर्थं यत् तदत्र परमार्थसत् / अन्यत् संवृतिसत् प्रोक्तं ते स्वसामान्यलक्षणे // " प्रमाणवा० 2. 3.; “स पारमार्थिको भावो य एवार्थक्रियाक्षमः // " प्रमाणवा० 3. 165 / "मेयं त्वेकं स्वलक्षणम् // तस्मादर्थक्रियासिद्धेः सदसत्ताविचारणात् / तस्य स्वपररूपाभ्यां गतेर्मेयद्वयं मतम् // " प्रमाणवा० 2. 53-54 77. 7. सू० १६-"सर्वत्र समरूपत्वात् तद्वद्यावृत्तिसमाश्रयात् // न तद्वस्त्वभिधेयत्वात् साफल्यादक्षसंहतेः ।"-प्रमाणवा० 2. 10, 11 / “अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् / यन्निष्ठास्त इमे शब्दा न रूपं तस्य किञ्चन // " प्रमाणवा० 2. 30 78. 20. 'न्यायवादी'-"अभिप्रायाविसंवादादपि भ्रान्तेः प्रमाणता। गतिरप्यन्यथा दष्टा पक्षश्चायं कृतोत्तरः // मणिप्रदीपप्रभयोर्मणिबुद्धयाभिधावतोः / मिथ्याज्ञानाविशेषेपि विशेषोऽर्थक्रियां प्रति // यथा तथाऽयथार्थत्वेप्यनुमानतदाभयोः / अर्थक्रियानरोघेन प्रमाणत्वं व्यवस्थितम् // " प्रमाणवा० 2. 56-58 / / 79. 2. सू० १८-प्रमाणफलयोरभेदं निराकुर्वतो नैयायिकस्य युक्त्यर्थं द्रष्टव्यान्यायमं० पृ० 70 / पृ०.७९. पं. 11. 'पुरस्तात्' देखो पृ० 17-18 81. 2. सू० २०–“विषयाकारभेदाच्च घियोऽधिगमभेदतः। भावादेवास्य तद्भावे स्वरूपस्य स्वतो गतिः // " प्रमाणवा० 1. 6.; "तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः / भाव्यन्तेनात्मना येन प्रतिकर्म विभज्यते // अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् / अन्यः स्वभेदाज्ज्ञानस्य भेदकोऽपि कथञ्चन // तस्मात् प्रमेयाधिगतेः साधनं मेयरूपता / साधनेऽन्यत्र तत्कर्मसम्बन्धो न प्रसिध्यति // सा च तस्यात्मभूतव तेन नार्थान्तरं फलम् / दधानं तच्च तामात्मन्याधिगमनात्मना // " प्रमाणवा० 2. 302, 305, 306, 307 / - 81, 8. सू० 21. "तस्माद् यतोऽस्यात्मभेदादस्याधिगतिरित्ययम् / क्रियायाः कर्मनियमः सिद्धा सा तत्प्रसाधना // " प्रमाणवा. 2. 304 82. 4. 'चक्षुरादिभ्यः'-"सर्वसामान्यहेतुत्वादक्षाणामस्ति नेदृशम् / तद्भेदेपि ह्यतद्रूपस्यास्येदमिति तत् कुतः // सर्वमेव हि विज्ञानं विषयेभ्यः समुद्भवद् / तदन्यस्यापि हेतुत्वे कथञ्चिद्विषयाकृति // यथैवाहारकालादेर्हेतुत्वेऽपत्यजन्मनि पित्रोस्तदेकस्याकारं धत्ते नान्यस्य कस्यचित् ॥"-प्रमाणवा० 2. 312, 368, 369 /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0dd79b59661c6ae1a8f0dd3613bdec2c99477603f7a5dfacf7ad84c94fcd717f.jpg)
Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380